SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १४७ द्वितीय उच्छ्वासः तथा विन्यस्तः स्वस्तिको यस्यां सा तया तथा सर्वतो भद्रो भूषणं यस्याः सा तया । एतावता शिशुः सकलः स्वस्तिको वर्द्धमानः सर्वतोभद्र इत्याख्यानि पञ्चपत्राणि भवन्ति तानि चित्रकरविद्यायां प्रसिद्धानि । तथा एकत्र प्रदेशे ईदृशैर्देवकुलैः - देवगृहैः संकुलम् । किम्भूतैर्देवकुलैः ? पताकाध्वजवासः सैवाङ्कः - चिह्नं येषां तानि, तथा सन्धिषु - भित्त्यादिश्लेषेषु संगतानि - मिलितानि अविभाव्यसन्धीनीत्यर्थः, पश्चात् कर्मधारयस्तैः । कैरिव ? नाटकैरिव । तैः किम्भूतैः ? मुख्यनायकोपरि उपनायकचरितं पताका, तथा अंक: - प्रबन्धविभाग:, तथा मुखप्रतिमुखगर्भअवमर्शनिर्वहणाख्याः पञ्चसन्धयस्तैः सङ्गतैः - सम्बद्धैः । पुनः किम्भूतैर्देवकुलैः ? दृष्टं कूटस्य- शिखरस्य कर्म - घटनालक्षणं येषु तानि तथा तैः । कैरिव ? दुष्टाः ये किराटा:-सिन्धुदेशप्रसिद्धा वणिग्जनास्तैरिव । तैः किम्भूतैः ? दृष्टं कूटं कपटो येषु तादृशानि कर्माणि - क्रयविक्रयादीनि येषां ते तथा तैः । “किरोलश्च वेति किरातः किदाट: प्रत्ययः किराटः भक्ष्यविशेषः वणिक्म्लेछश्च" इत्युणादिवृत्तौ [ ] । तथा सुधांलेपविशेषमिग्रति-प्राप्नुवन्ति यानि तानि तथा तैः सुधया लिप्तैरित्यर्थः । कैरिव ? शस्त्रैरिव-आयुधैरिव । तैः किम्भूतैः ? शोभना धारा - अग्रभागो येषां तानि तथा तैः । तथा विचित्रैः-अनेकप्रकारेः, तथा सचित्रैः - आलेख्यसहितैः । अपिः - विरोधे । यानि विगतचित्राणि भवन्ति तानि चित्रसहितानि कथं स्युरिति । तथा न विद्यते तुला - साम्यं येषां तानि तथा तैः, अनुपमैरित्यर्थः । तथा सह तुलया - धारणस्तम्भेन वर्तन्त इति सतुलानि तैः । विरोधे तु, यानि तुलया रहितानि भवन्ति तानि कथं तुलया सहितानीति । तथा विशालं - विस्तीर्ण शालाभिर्गृहैः सम्पन्नं- सहितम् । अपिः - विरोधे । यद्विशालं - शालारहितं भवति तत्कथं शालासम्पन्नं स्यात् । तथा चत्वारश्चरणा:- ऋग्वेदादयस्तैः संयुक्तं, तत्पाठकै - रधिष्ठितत्वात् । तथा रणेन - युद्धेन रहितम् । अपि चेति - विरोधे । यत् चतुर्भिश्चरणैः-पादैः संयुक्तं स्यात् तत्कथं चरणैः रहितं भवेत् । तथा विभि: - वैश्यैः मनुष्यैर्वा भृतं पूरितं, तथा शुचिमार्गं-पवित्रपथम् । विरोधे तु यद् विभि - विष्टाभिर्भूतं भवति तत्कथं शुचिमार्गं स्यात्। तथा सर्वत्र-सर्वस्मिन्नपि भूभागे चत्वरै अङ्गणैः चतुःपथैर्वा अधिष्ठितं - आश्रितम् । " चत्वरं स्यात् पथां श्लेषे स्थण्डिलाङ्गणयोरपि " इत्यनेकार्थः [३।५८७] । तथा स्थिरा:-निश्चलाः प्रकृतयः - अमात्यादयो यस्मिंस्तत्तथाविधम् । विरोधे तु चकारस्य - समुच्चयार्थस्य, पूर्वपादेन योगस्तदा सर्वत्र चेति भिन्नं, यत्त्वराधिष्ठितं-वेगाश्रितं भवति तत्कथं स्थिरप्रकृतिः- स्थिरस्वभावं स्यात् । १. पूर्वपदेन अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy