SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः १५१ इव । स च कीहक् ? नागानां-सर्पाणां मां-लक्ष्मी अधिक्षिपति-लुम्पति यः स तथाविधः, तेषां भक्षणात् । तथा अलसेभ्य:-आलस्योपेतेभ्यो हितो न । यद्वा, आलेन-अनर्थेन सहितो न । क इव ? पद्मखण्ड इव-सरोजकाननमिव, स च किम्भूतः ? नालेन-काण्डेन सहित:युतः । “षण्डः काननइट्चरेः" इत्यनेकार्थः [२।१३०] । तथा न आमेन-आतङ्केन रोगेण वा सम्पन्नः-युक्तः । "आमोऽपक्वे रुग्भेदरोगयोः" इत्यनेकार्थः [२।३१८] । क इव ? व्याकरणप्रबन्ध इव-शब्दशास्त्ररचनेव । स च किम्भूतः ? नाम-प्रातिपदिकं तेन सम्पन्नः । तथा धाम्नां-तेजसां धाम-गृहम् । तथा वीरतायाः-शौर्यस्य आधारः-आश्रयः । तथा पुरुषकारस्य-पौरुषस्य पुरं-नगरम् । तथा श्रेयसां-कल्याणानां श्रियां-लक्ष्मीणां श्रुतीनां चवेदानां आश्रयः-आस्पदम् । पुनः किम्भूतः ? रणाङ्गणेषु न गणिता-भाविता भी:-भयं येन सः अगणितभीः। अथ नृपवर्णने बहुत्वैकत्वश्लेष: यस्यानवरतमुत्कृष्टालयः क्रीडावनपादपाः पौरलोकश्च, अपरुषो दायादा वाग्विभवश्च, विमत्सराः सभासदो देशश्च, विकसद्रुचयोऽङ्गावयवाः क्रीडापर्वतश्च', अपराजयो मण्डनमणयः सेनासमूहश्च, अगतरुजो वने विनाशमन्वभवन्नितान्तं रिपवः पुष्पप्रकरश्च । ____ यस्य-नृपतेः सम्बन्धिनः ईदृशाः, क्रीडार्थं वनपादपाः-वनवृक्षाः, पौरलोकश्च । कीदृशाः ? क्रीडावनपादपाः अनवरतं अजस्रं उत्-प्राबल्येन अर्थात् सौरभ्यजनितेन कृष्टाआनीता अलयः-भ्रमरा यैस्ते तथोक्ताः । कीदृशः पौरलोकः ? उत्कृष्टा आलया:-गृहा यस्य स तथाविधः । तथा यस्य-नृपस्य ईदृशा ‘दायादाः' दायं विभक्तव्यं पितृद्रव्यं आददतेगृह्णन्तीति दायादाः-भागग्राहिणो वाग्विभवश्च-वचनविलासः । किम्भूता दायादाः ? अपगता रुट-रोषो येभ्यस्ते अपरुषः । किम्भूतो वाग्विभवः ? न परुष:-रूक्षः, अपरुषः, नञ्तत्पुरुषः, स्निग्ध इत्यर्थः । तथा यस्य-नृपस्येदृशाः सभासदः-सभ्या: देशश्च । कीदृशाः सभासदः ? विगतो मत्सरः-परगुणोत्कर्षासहन येभ्यस्ते तथाविधाः । किम्भूतो देशः ? विमन्ति-पक्षियुक्तानि सरांसि यस्मिन् सः विमत्सरः । तथा यस्य-नृपस्येदृशा अंगस्यशरीरस्यावयवाः-हस्तपादादयः क्रीडापर्वतश्च । किम्भूता अंगावयवाः ? विकसन्तीउल्लसन्ती रुचि:-कान्तिर्येषु ते तथाविधाः । किम्भूतः क्रीडापर्वतः ? विकसतां द्रुणांवृक्षाणां चयः-समूहो यस्मिन् स तथाविधः । श्लेषे वर्णलोपो न दोषाय । तथा यस्य नृपतेः ईदृशाः मण्डनमणय:-अलङ्काररत्नानि सेनासमूहश्च । किम्भूता मण्डनमणयः ? अपगता राजिः-रेखा येभ्यस्ते अपराजयः । एकत्वपक्षे तु-न पराजीयते-परैः पराभूयत इति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy