________________
द्वितीय उवासः
१४५ कृतकोपास्ते कथं मन्युशून्याः ? इति । तथा उक्तानि सूक्तानि-सुभाषितानि यैस्ते तैः, तथा निरुक्तं-ग्रन्थविशेषस्तत्र परैः-पठनादिना सावधानैः । विरोधस्तु, ये उक्तसूक्ता भवन्ति ते कथं निरुक्तं-वचनाभावस्तत्परा भवन्ति ? किन्तु वचनपरा एव भवन्ति । तथा सन्मार्गःसदाचारस्तस्मिन् लग्नाः-प्रवृत्तास्तैः, तथा गृहस्थैः-गृहाश्रमरतैः । विरोधस्त्वेवं, ये सन्मार्गेश्रेष्ठवर्त्मनि लग्ना भवन्ति-मार्गे चलन्तीत्यर्थस्ते कथं गृहे तिष्ठन्तीति ? मुक्तगृहा एव भवन्तीत्यर्थः। तथा सकलं-सर्वं त्रायन्त इति सकलत्रास्तैः, तथा ब्रह्म-वेदं चरन्ति अवश्यं जानन्तीति ब्रह्मचारिणस्तैः । "ब्रह्मचारिभिरपि सकलत्रैरिति पाठे ब्रह्मचारिभिनिषिद्धकामैः सकलत्रैरिति स एवार्थः । विरोधे तु ये सकलत्रा:-सस्त्रीका भवन्ति ते कथं ब्रह्मचारिण इति । तथा अभ्यस्ता-ज्योति:शास्त्राध्ययनात्तिथिः-प्रतिपदादिस्ते तथाविधैस्तिथिरित्युपलक्षणं नक्षत्रवारादीनां, तथा अतिथीनां-आगन्तून् कुशांश्च-दर्भान् लान्ति-स्वीकुर्वन्ति भोजनार्थं शुच्यर्थं च ये ते अतिथिकुशलास्तैः । विरोधे तु ये अभ्यस्ततिथयो भवन्ति ते कथं तिथिषु कुशलाः न भवन्ति । तथा सामवेदस्य प्रयोगे-पठनादिव्यापारे प्रधानानि-मुख्यास्तैः, दण्ड:-आषाढस्तमवलम्बन्ते-करे गृह्णन्तीत्येवंशीला दण्डावलम्बिनस्तैः । विरोधे तु, ये सामप्रयोगे-सांत्वनव्यापारे प्रधानानि भवन्ति ते कथं दण्ड:-दमनं तदवलम्बिनो भवन्ति । तथा शतपथः-यजुर्वेदस्तमनुचरन्ति-जानन्तीति शतपथानुचारिणस्तैः, तथा एकमार्गःऋजुभिः। विरोधे तु, ये शतसंख्याः पन्थानस्तेषु अनुचरन्ति ते एकमार्गाः कथं भवन्ति, एको मार्गो येषां ते इति ।
___ पुनरपि एकत्र विपणि वणिग्जनैरधिष्ठितम् । किम्भूतैविपणि वणिग्जनैः ? द्रोणःमानविशेषः स पुरस्सरः-अग्रेसरो येषां ते तथाविधैः । कैरिव ? कुरुभिरिव-कुरुक्षत्रियैरिव । किम्भूतैः ? द्रोण:-कौरवगुरुः स पुरस्सरो येषां ते तैः । तथा तुला-सूत्रादिमानं तां धारयन्तीति तुलाधारिणस्तैः । कैरिव ? प्रासादैरिव । तैः किम्भूतैः ? गृहादीनां तिर्यक्धारणस्तम्भस्तुला तां धारयन्तीति तैः । तथा अनुमेयं-कणादि तस्य अनुमानंउद्देशज्ञानं तत्र निपुणैः-चतुरैः । कैरिव ? नैयायिकैरिव-योगैरिव । तैः किम्भूतैः ? यदनुमीयते तदनुमेयं, येन च अनुमीयते तदनुमानं, यथा पर्वतोऽयं वह्निमान् धूमवत्वात् इत्यत्र धूमोऽनुमानं वर्तेरनुमेयः तयोनिपुणैः-दक्षैः । तथा द्रव्यस्य-रूपकादेरनुगुणः-संकलना तत्कर्मविशेषेषु पण्डिता:-विज्ञास्तैः । कैरिव ? वैशेषिकैरिव । तैः किम्भूतैः ? द्रव्यानुगता:द्रव्यसमवेता ये गुणाश्च कर्माणि च विशेषाश्च पदार्थास्तेषु पण्डितास्तैः । तथा रूपंटंककरूपकादिनाणकं तस्य या सिद्धिः-निष्पत्तिस्तया प्रधानानि तैः । कैरिव ? वैयाकरणैरिव-शाब्दिकैरिव । तैः किम्भूतैः ? रूपाणि-शब्दास्ते च रामादयस्तेषां या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org