SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १४४ दमयन्ती - कथा - चम्पूः 1 चरीभिरिव रजनीरागिणीभिः सर्वतोमुखजघनचपलाभिरप्यनार्याभिः, कर्णाटचेटीभिर्भरितम् । एकत्र बालकमिव कुलालाकीर्णम् । एकत्र वृद्धिमिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रवर्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालंकृतम् । एकत्र नाटकैरिव पताकाङ्कसंधिसंगतैः, दुष्टकिरादैरिव दृष्टकूटकर्मभिः, शस्त्रैरिव सुधारैः, विचित्रैरपि सचित्र : २, अतुलैरपि सतुलैर्देवकुलैः संकुलम् । विशालमपि शालासंपन्नम्, चतुश्चरणसंयुक्तमपि चरणरहितम्, विद्भृतमपि शुचिमार्गम्, सर्वत्र चत्वराधिकमपि स्थिरप्रकृतिः, मज्जन्महाराष्ट्र - कुटुम्बिनीमुखमण्डलविधीयमानोत्फुल्लकमलखण्डशोभाया "स्तुङ्गतरङ्गरङ्गत्तरुणार्जुनराजीवराजमानराजहंसविराजितवारे र्वरदास्तीरे कुण्डिनं नाम नगरम् । तस्य-दक्षिणदेशस्य अन्तर्भूतं - मध्यवर्त्ति यद्वैदर्भमण्डलं तस्य अलङ्कारभूतंमण्डनोपमं, एवंविधविशेषणोपेतम् । तुङ्गतरङ्गेषु - उच्चवीचिषु रंगति - शोभमानानि तरुणानिनवानि अर्जुनानि-धवलानि यानि राजीवानि तद्वद् राजमाना ये राजहंसास्तैर्विराजितं, वारि यस्याः सा तस्याः, वरदायास्तीरे कुण्डिनं नाम नगरं पुरं वर्तत् इति शेषः । किम्भूतं कुण्डिनम् ? अनाकुलं स्वपरचक्रादिभिरव्याकुलं, तथा अमरपतिपुरं - अमरावतीं स्पर्द्धतेसंहृष्यति इति अमरपतिपुरस्पर्द्धि, तथा परितः - चतसृष्वपि दिक्षु परिखया-खातिकया आक्रान्त:-आलीढो यः प्रान्तः - अवसानं तत्र रूढानि - उत्पन्नानि प्रौढानि - गुरूणि हृद्यानिहृदयहारीणि यानि उद्यानानि वनानि तेषां या माला- श्रेणिस्तया वलयितं - वेष्टितं यस्य पुरस्य परित उद्यानमालाशोभत इत्यर्थः । तथा अदभ्राणि - बहूनि शुभ्राणि-धवलानि अभ्रंलिहानिनभ आश्लिष्यन्ति उच्चानि यानि प्रासादशिखराणि तेषां शिखाभोगेषु - अग्रविस्तारेषु भग्नो रविरथतुरङ्गाणां वेगः-रयों यत्र तत्, प्रासादानामत्युच्चत्वेन अन्तरापतितत्वात्तद्वेगभङ्गः । तथा एकत्र - एकस्मिन् प्रदेशे ब्राह्मणैरध्यासितं - निषेवितं । कीदृग्भिर्ब्राह्मणैः ? अग्निहोत्रस्य - अग्निहोमस्य ये मन्त्रास्तैः पवित्रा - शुद्धा या आहुति:- होतव्यद्रव्याहवनं तया इत:-ध्वस्तः समस्तानां दिव्यानां दिविभवानां व्यन्तरादिकृतानां मार्य्यादीनां, आन्तरिक्षाणां चआकाशोत्पन्नानां अवृष्ट्यादीनां भौमानां च भुवि भवानां चौरादिकृतानामुत्पातानां उपद्रवाणां संघात:-समूहो यैस्ते, तथाविधैः आहुतिहतोपद्रवसंधैः । तथा कृता मन्यव: - यज्ञा यैस्ते तथाविधैः कृतक्रतुभि:, तथा मन्युशून्यैः - कोपरहितैः । अपिः - विरोधे । ये कृतमन्यवः For Personal & Private Use Only Jain Education International , www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy