SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १३६ दमयन्ती-कथा-चम्पूः तदलमलीककलहारम्भेण भवानप्येवं विधो प्रेमप्रपञ्चनाटकनायको नातिचिरादेव यथा भवति तथा कमप्युपकारं करिष्यामि' इति राजानमवादीत् । तत्-तस्माद्धेतोः अलीकः-अन्योक्तिकथनरूपो यः कलहारम्भस्तेन अलंअलीककलहारम्भं मा कुर्वित्यर्थः । भवानप्येवं विधो यथा वयोर्दम्पत्योस्तथाविधो यः प्रेमप्रपञ्चः-स्नेहविस्तारः स एव नाटकं तस्य नायक: शिक्षयिता नातिचिरादेव-स्वल्पेनैव कालेन यथाभवति “वर्तमानसामीप्ये वर्तमानवद्वा" [पा० सू० ३।३।१३१] इति वचनाद्भविष्यति लट भविष्यति । तथा कमपि अभीष्टं उपकारं करिष्यामि । काञ्चन राजपुत्रीं भवता सह संयोजयिष्यामीति भावः, इत्युवाच ।। अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिमनोहारिणी वागश्रूयते । अत्रान्तरे-अस्मिन्नवसरे अन्तरिक्षमण्डलात्-आकाशादतिस्पष्टातिशयेन व्यक्ता या वर्णव्यक्ति:-अक्षरविवेचनं तया मनोहारिणी-मनोज्ञा वाक् श्रूयते । तथाहि राजन् ! राजीवपत्राक्ष ! क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने ॥ २३ ॥ राजनिति । श्लोकः । हे राजन् ! राजीवपत्रवद्विशाले अक्षिणी यस्य स राजीवपत्राक्षस्तस्य सम्बुद्धौ हे राजीवपत्राक्ष ! अयं-हंसः क्षिप्रं विमुच्यताम् । यस्मादेष-हंसो दमयन्त्याः प्रलोभने-त्वयि सरागीकरणे ते-तव दूतो भविष्यति । असौ दमयन्ती त्वयि विषये रागिणीं करिष्यतीति भावः ।। २३ ॥ राजा तु तेन तस्याः सोमबलातैलपूरेणेवाङ्गमुत्पुलकयता, कर्णान्तरमवतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिर'पिच्छस्पर्शसुखमिवानुभवन्मनाङमीलिताक्षश्चिन्तयांचकार । राजा तु-नलस्तस्या:-नभोवाण्या: सकाशात् कर्णान्तरं-कर्णमध्यमवतीर्णेन-प्राप्तेन तेन दमयन्तीति नाम्ना तित्तिरेरिदं तैत्तिरं कोमलं-मृदु यत्तैत्तिरं-तित्तिरिसम्बन्धि पिच्छं-पत्रं तस्य स्पर्शे-वपुषाश्लेषे यत्सुखं तदनुभवन्निव-आस्वादयन्निव मनाक्-स्तोकं मीलितेसंकोचिते अक्षिणी येन स ईदृशः सन् चिन्तयाञ्चकार-चिन्तितवान् । किम्भूतेन दमयन्तीति नाम्ना ? सोष्म-औष्ण्यसहितं यत् बला-गन्धद्रव्यविशेषस्तस्य तैलं तस्य यः पूरः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy