SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः धर्मपात्रादिषु दीनां स्थितिं - व्यवस्थानं न कुरुथ, औदार्यं भजथेत्यर्थः । तथा रणचर्यायांरणविधौ न न श्लाघ्यध्वे ? अपितु श्लाघ्यध्व एव । च:- समुच्यये । वयं च सरसांतडागानां श्रियमनुभवामः, तथा नदीनां - सरितां पात्रेषु-कूलमध्येषु स्थितिं - अवस्थानं कुर्मः । "पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि ।" इत्यनेकार्थः [ २|४४९ ] । तथा चरणं चर्या-गतिविशेषस्तस्यां न न श्लाघ्यामहे लोकैरिति शेषः, अपितु श्लाघ्यामह एव । तत्तस्मादुक्तप्रकारेण सपक्षेषु - समानपक्षेषु । पक्षे, पक्षिति सहितेषु अस्मासु विपक्ष:- विरुद्धपक्षो मा भूः । अत्रास्माभिरर्थवशाद् विभक्तिपरिणामं विधाय व्याख्या व्यधायि । सूत्रकृता युष्मदस्मदोर्युगपद्योगे अव्यवधानाच्च पुरुषविशेष इति वचनादस्मत्प्रयोग एवोक्त इति । एषा मे हृदयं जीव उच्छ्वासः प्राण एव च । संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः १ ॥ २१ ॥ एषेति । अनुष्टुप् । एषा - एषैव मे मम हृदयं मनः अभिन्नभावत्वात्, तथा जीव:जीवितं तत्सद्भावे जीवनात्, तथा उच्छ्वासः - श्वासरोधकचिन्तादिदुःखभरापगमहेतुत्वात्, तथा प्राण:- प्रधानभूतो वायुः देहाधारत्वात्, प्राणो बलमपि । यत्प्रशस्तपाद:-“प्राणोऽन्तः शरीरे रसमलधातूनां प्रेरणादिहेतुरिति [ ] । हि:-यस्मात्कारणात् प्राणिनां प्रिय:- जनो वल्लभो लोकः संसारसुखस्य सर्वस्वं सर्वधनं, एतस्मादधिकं संसारसुखं न किञ्चिदस्तीत्यर्थः ॥२१॥ तथा Jain Education International १३५ रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ २२ ॥ रूपेति । श्लोकः । ईदृशं कलत्रं - स्त्री केन लभ्यते अपिरत्रानुक्तोप्यर्थाद् ग्राह्यस्तेन केनाऽपि भाग्यवता जनेन प्राप्यते, न तु येन केनचिदित्यर्थः । किम्भूतम् ? रूपसम्पन्नंरूपसम्पदुपेतं, तथा अग्राम्यं - अप्राकृतं, तथा प्रेम्णा प्रायं - सदृशं प्रेमप्रायं समस्नेहमित्यर्थः । यादृग् ममैतस्या उपरि स्नेहस्तादृगेतस्या अपि ममोपरीति । यद्वा, प्रेम्णः - स्नेहस्य प्राय:बाहुल्यं विद्यते यस्मिस्तत्स्नेहलमित्यर्थः । “प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययो: ।" इत्यनेकार्थः [२।३७४] । तथा प्रियम्वदं - मधुरवादि, तथा कुलीनं - सत्कुलोत्पन्नं, तथा अनुकूलं - अनुगामि ॥ २२ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy