SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १३४ दमयन्ती-कथा-चम्पू: प्रियस्यानतिक्रमेण यथाप्रियं प्रियः-भर्ना इष्टप्रदेशश्च । वसुन्धरेश्वरे-नृपे इति अभिहितवतिइत्युक्तवति सति । साऽपि हंसी सपरिहासं-सस्मितं यथा स्यात्तथा इत्युक्तप्रकारेण आकलित:मनसावधारितः कलह:-परस्परं राटिर्यस्मिन् कर्मणि तद्यथास्यात्तथा कलहंसमवादीत् । हं हो ! इति प्रश्नपूर्वामन्त्रणे, हे विहङ्ग !-हंस ! भुजङ्गविलासिन् ! तां-राजनिवेदितां मृणालिकां-पद्मिनीपालननायिकां अरसां-निःस्नेहां तरसा-बलेन नु-किं रागेण-स्वासक्त्या रञ्जितं-हृष्टं मनो यस्याऽसौ, ईदृशः सन् कामयसे-इच्छसि ? नुः-किमर्थे । न चाऽयं विलासिधर्मः । वस्तुतस्तु-हं हो ! हंस ! मृणालिकां-पद्मिनी रञ्जितमना-रञ्जितचित्तः कामयसे । हे तामरसान्तरसानुराग ! तामरसान्ते-अम्भोजे यो रस:-निर्यासस्तत्र अनुरागो यस्येति सम्बोधनम् । अन्तशब्दः स्वरूपार्थः । यद्वा, तामरसस्य अन्तरे-मध्ये सानुरागेति सम्बोधनम् । वा-अथवा पीनदेहे-स्थूलाङ्गे नीरसे-निःस्नेहे निर्वीर्ये वा बके-बकप्राये त्वयि किं न सम्भाव्यते ? अपितु सर्वं नृपोक्तं सम्भाव्यत एव । पक्षे, त्वयि किम्भूते ? वाप्यश्चनदीश्च तेष्वीहा-वाञ्छा यस्य स तस्मिन्, तथा नीलं-जलं सेवते यः स तस्मिन्, किं न सम्भाव्यते, इति सम्भावना । अत्र प्रशंसाविषया एकमेव हि वाक्यं प्रकरणादौचित्याच्च प्रशंसां निन्दां च प्रतिपादयति । तथा त्वमस्माकं किं किं न करिष्यसीति प्रसन्नेनोक्तं प्रशंसा गमयति, दुष्टेन च निन्दाम् ।। सोऽपि वैदग्ध्यधुरंधर', धूर्तालापपण्डित, प्रज्ञाप्रारभारगुरो, चातुर्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च राजहंसाः । सरसां श्रियमनुभवामः । नदीनां पात्रेषु स्थिति कुर्मः । न चरणचर्यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः ।। अथ सोऽपि-हंसः इति वक्ष्यमाणं राजानं-नलमवादीत् । इतीति किम् ? वैदग्ध्येनचातुर्येण धुरन्धरः-सर्वेषां मध्ये मुख्यस्तस्य सम्बुद्धौ हे वैदग्ध्यधुरन्धर ! तथा धूर्तानांचस्तरीवाक्यवक्तृणामालापेषु-वाक्येषु पण्डितो धूर्तालापपण्डितस्तस्य सम्बुद्धौ हे धूर्तालापपण्डित !, अन्यथा एतादृशानां वाक्यानां कुत उल्लापः । तथा प्रज्ञाप्राग्भारेणबुद्धिबाहुल्येन गुरुः-गरिष्ठो बृहस्पतिप्रतिभो वा तस्य सम्बुद्धौ हे प्रज्ञाप्राग्भारगुरो !, तथा हे चातुर्याचार्य !-चातुर्यशिक्षक ! हे नृप ! मे-मम मा प्रियां-हंसी प्रकोपय-सेर्त्यां कुरु । यतो यूयं वयं च सदृशा एव-समाना एव राजहंसा:-राजमुख्याः । पक्षे, लोहितैश्चञ्चुचरणैर्युक्ता हंसा:-राजहंसाः । तथा यूयं सरसां-जनानुरागकरीं श्रियं-राज्यलक्ष्मीमनुभवथ, तथा पात्रेषु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy