SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १३७ द्वितीय उच्चासः प्रवाहस्तेनेव अङ्ग-शरीरमुत्पुलकयता-रोमाञ्चयता । यथा सोष्मबलातैलस्पर्शात्पुलकाः संजायते तथा तन्नामश्रवणादेवेति । किं चिन्तितवानित्याह आह्लादयन्ति सौख्याम्भःशातकुम्भीयकुम्भिकाः । काञ्चीकलापसश्रीकाः' श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥ आह्लादेति । श्लोकः । आसतां दृष्टाः स्पृष्टा वा श्रुता अपि तस्याः श्रोणीबिम्बा आह्लादयन्ति-आनन्दमुत्पादयन्ति । वयःकृतगुरुगुरुतरादिबहुविशेषात्तद्बहुत्वम् । किम्भूताः श्रोणीबिम्बा: ? सौख्यमेव अम्भ:-जलं तस्य शातकुम्भीया:-सौवर्ण्य: कुम्भ्य इव-कलशा इव यास्ताः । सौख्यस्य सर्वात्मना आधारभूता इत्यर्थः । पुनः किम्भूताः ? काञ्चीकलापेन-मेखलावृन्देन सश्रीका:-शोभमानाः ॥ २४ ॥ __ तत् का नाम सा दमयन्ती२, कश्चायमाश्चर्यभूतो विहंग:३, का चेयं नभोभारती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितलतामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले निषद्य तं हंसमवादीत् । तत्-तस्माद्धेतोः नामेति प्रसिद्धा सा दमयन्ती का ? तथा कश्चायं आश्चर्यभूतो मानुषभाषाभाषकत्वेन चेतश्चमत्कारकारी विहङ्गः-पक्षी ? तथा का च इयं राजन्नित्यादिरूपा नभोभारती-व्योमवाणी ? एतत् सर्वं विस्तरेण-प्रपञ्चेन वेदितव्यं-ज्ञातव्यमिति अवधारयन्विचारयन्, एकस्यां उत्फुल्ला:-विहसिताः पल्लविता:-किसलयिता या लतावीरुधस्तासामाधारभूतो यो मण्डपः-आश्रयविशेषस्तस्य छायायां उन्निद्राणि-विकसितानि यानि कुसुमानि तेषां ये मकरन्दशीकरा:-कुसुमजकणास्तेषां य आसार:-वेगवद्वर्षस्तेन शिशिरं-शीतलं तत्तत् तस्मिन्, शिलातले निषद्य-उपविश्य तं हंसमवादीत्-ऊचिवान् । 'भद्र, साप्तपदीनं सख्यम्, उत्पन्नकतिपयप्रियालापा' प्रीतिः, प्रयोजननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् । । किमवादीत्याह अस्ति च तत्सर्वं भवन्मूर्तावतो निःशङ्कमभिधीयसे । कथय केयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy