________________
दमयन्ती - कथा - चम्पूः
शकुन्त:-पक्षी न बध्यते, किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं त्वयेति वास्तवोऽर्थः । एवं मुत्तरत्रापि ॥ २० ॥
किञ्चान्यदपि, हे हंसिके ! बन्धस्य कारणं श्रूयताम्
अपरपरिभोगप्रतिपादनेर्ष्यया उत्कृष्टदोषदर्शनेन च हंसं प्रति हंसी कलहयन्नाह
१३२
अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमुखकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः खण्डित - मधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमारभाव: ।
किं वापीवरेणानेन न कृतम् ।
तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । न च नदीक्षिते द्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ।
चकारः पराभिप्रायाक्षेपपूर्वके विशेषे एवं नामाऽसौ दुरात्मा निर्मर्यादो निशङ्कश्च तेन आसतां लोकदाराः, ममाऽपि राज्ञः परिग्रहे - स्वीकारे मृणालिकानां पद्मिनीनामवने-रक्षणे नायिका - स्वामिनी सा, ततो अपरागाद् - रागाभावात् स्थगितं संवृतं मुखकमलं - वक्त्राब्जं यया सा, ईदृश्यपि बलात् - बलात्कारेण अनेन त्वद्भर्त्रा विनाशिता । विनाशोऽत्र शीलखण्डनं, कथं विनाशितेति ? तदेवाह
विनिपत्येति । उपरि विनिपत्य-संस्थायेयं नखैर्जर्जरिता, तथा अस्या अधरदलंओष्ठपल्लवः खण्डितं-सक्षतं कृतं, तथा अस्या अलिकं ललाटं तस्य, तथा अलकानां चकेशानां मण्डनं-तिलकपुष्पादि दलितं - लुप्तं, तथा अस्या: सुष्ठु कुमारभाव: अर्थात् कन्यात्वं अपनीतः-उदस्तः । वा-अथवा अनेन पीवरेण - स्थूलेन किं न कृतं ? अपितु पूर्वोक्तं सर्वं कृतमेव । तदित्युपसंहारे तस्माद्दोषोऽपराधी पञ्जरस्य बन्धनोपकरणस्येदं पाञ्जरं मध्यं बहुधा - अनेकप्रकारेण यावन्नावगाहते - नाध्यास्ते मे मम तावत् कुतः सन्तोष: ? अथाऽयं द्विजन्मत्वादनिग्राह्यः ? इत्यत आह-न चेति । द्वाभ्यां सकाशाज्जन्म यस्य स द्विजन्मा, न द्विजन्मा अद्विजन्मा तथोक्ते: अर्थात् त्रिजाते निगृहीतेऽपि - अपरुद्धेऽपि गरीयः -गरिष्ठं पातकं न च नैवास्ति । तस्मिन् कीदृशे ? 'न दीक्षिते' दीक्षा - शौचादिमतपरिग्रहः सा सञ्जाताऽस्येति दीक्षितस्तस्मिन् । एतेन लिङ्गी त्रिजाताप्यवध्य एव । अपि:-समुच्ययार्थो भिन्नक्रमः, स च द्विजन्मनीत्यनेन संयोज्यः । तद्यथा, दीक्षिते - व्रतिनि द्विजन्मनि च ब्राह्मणे निगृहीते पातकं न इति न च पातकमेवेत्यर्थः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org