________________
द्वितीय उवासः
१३१ राजन् ! जलपक्षिणो मुनय इव ये मीनाहारं वाञ्छन्ति, बहुधावनव्यसनिनो विसाधारा: । तदलमाग्रहेण ।
हे राजन् ! जलपक्षिणो मुनय इव-यतय इव मीन:-मत्स्यस्तस्याहारं वाञ्छन्तिईहन्ते । तथा बहुधा वने-अतिशायिभ्रमणे व्यसनं-आसक्तिर्विद्यते येषां ते बहुधावनव्यसनिनः । तथा विसं-पद्मिनीनालं आधारः जीवनं येषां ते विसाधारास्ते, [मुनिपक्षे-अमी मुनयो न आहारं वाञ्छन्ति तथा बहुधा-अनेकधा वनव्यसनिनो वनस्थाः, तथा व्यपेतः साधारः, अन्यलोकसाधारणस्तिथिपर्वोत्सवादिर्येभ्यः] । लोकोत्तरवृत्तत्वात् । विसादना इति तु पाठे विसं अदनं येषां ते, पक्षे विगतं सादनं-पीडनं येभ्यस्ते अपीड्यकरा इत्यर्थः । यत एव तत्तस्माद्धेतोः आग्रहेण-ग्रहणहठेन अलमिति वारणे अव्ययं, मा गृहाणेत्यर्थः ।
राजा तु तेन तस्याः श्लेषश्लाघिना श्लोकोक्तिरसेनानाद्यमानो नर्मालापलीलया तां बभाषे ।
राजा तु-नलस्तस्या हंस्यास्तेन श्लेषश्लाघिना-श्लेषप्रकाशनशीलेन एतेन एकान्त इत्यादि वचसां श्लिष्टार्थत्वमुक्तं, श्लोकोक्तीनां यो रस:-माधुर्यं तेन श्लोकोक्तिरसेन आह्लाद्यमान:आनन्द्यमानः नालापानां-परिहासपूर्वकमधुरवाक्यानां यो लीलाविलासस्तया तां-हंसी प्रति बभाषे।
अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किं बहुनाशकुन्तः ॥ २० ॥ किं चान्यदपि श्रूयतां बन्धस्य कारणम् ।
अनेकधेति । उपेन्द्रवज्रावृत्तम् । हे हंसिके ! यः सदा जगतोऽपि-सर्वस्यापि सदम्भः-दाम्भिकः, तथा अनेकधा उक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं-ममत्वं करोति। तथा दारेषु-परस्त्रीषु विहारशील:-क्रीडापर अब्रह्मचारी, तथा बहून् नाशयत्येवं विधः कुन्तो यस्येति हिंसापापरतः स कथं न बध्यते संसारकारायामिति शेषः । इति हंसीप्रतिवचनौचित्ये समपक्षे व्याख्या । यद्वा, यो दाम्भिक: सदा जगतोऽपि पक्षस्यमित्रवर्गस्य पातं-नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः, तथा बहुघातकुन्तास्त्र: स महाऽपराधी वध्यत एव । नर्मणैव हंसीवचसोऽन्यथात्वं, तत्त्वतस्तु प्रामाण्यं, तद्यथा-हे हंसि । [किम्बहुना] अन्य किं बहूक्तेन सदम्भोज-सत्पद्मं गतः-प्राप्तः सन् यः पक्षति पातं करोति, तथा केदारविहारं-क्षेत्रेषु सञ्चरणं शीलयति-निषेवते यः स केदारविहारशीलः स
[
] कोष्ठकात्तरतियाढो अन्यप्रतिषु नास्ति, केनजं अनू. प्रतावेना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org