SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १३० दमयन्ती-कथा-चम्पू: एकान्ते सेवते योगं मुक्ताहारपरिच्छदः । हंसः समोक्षयोग्योऽपि देव ! किं वध्यते त्वया ॥ १८ ॥ नीरञ्जनपदे तिष्ठन्विश्वसंसारसङ्गतः ।। हंसः किं बध्यते क्वापि यस्य नालम्बनं प्रियम् ॥ १९ ॥ अन्यच्च । एकान्त इति । अस्य-विष्णोरपत्यं इ:-इरिव, इ:-कन्दर्पप्रतिमस्तत्सम्बुद्धौ हे ए ! इति-हे देव ! इति च उपच्छन्दयितुं सम्बोध्य मुमोचयिषः पतिं हंसी नपमाह हे ए ! हे देव ! मुक्ताहारः-मौक्तिकहारस्तद्वत् परिच्छदः-पक्षती यस्य शुभ्रत्वात् तथोक्तः । तथा कस्यजलस्य अन्ते-अवसाने वर्तमानं अगं-द्रुमं य: सेवते । तथा मोक्षस्य-मोचनस्य योग्योऽपिउचितोऽपि स हंस:-पक्षी त्वया किं-किमर्थं बध्यते, इत्येकधार्थः । अथवा, एकान्त इति समस्तं विजनार्थः, अथ च हंस:-आत्मा पुरुषः । हे देव ! स हंस आत्मा मोक्षयोग्योऽपिनिर्वाणा)ऽपि किं बध्यते ? न बध्यत एवेत्यर्थः । कया ? त्वया । त्वशब्दः सर्वनामगणमध्ये अन्यार्थः । अतः पुरुषापेक्षया अन्यया प्रकृत्येत्यर्थः । कस्मान्न बध्यते ? इत्याह-य एकान्ते-विजने, यद्वा, अ:-कृष्णस्तस्मिन् एकान्ते-कमनीये परमानन्दस्वरूपे त्यक्ताहारपरिवारः सन् योगं-अध्यात्मं ध्यानं समाधिमिति यावत् सेवते । अत्र पक्षे, अ इत्यस्माद् विष्णुवाचकात् सप्तम्येकवचने ए इति रूपम् । यदि वा स मोक्षयोग्योऽपीति समः-समदर्शन: शत्रुमित्रसमानदृष्टिः रागद्वेषाकरणात् । तथा अक्षयोग्योऽपि इन्द्रियसम्बद्धोऽपि ॥१८॥ नीरमिति । जनानां पदे-स्थाने पुरग्रामादौ अतिष्ठन्-अवसन् यः सरस इदं सारसं, तथा श्वसन्तीति श्वसाः, वयः-पक्षिणः, श्वसाः-प्राणिनो यत्र तत्तथाभूतं नीरं-जलं गतः स हंसः किं क्वापि बध्यते ? अपि तु न बध्यत एव । स इति कः ? यस्य-हंसस्य नालंतृणसम्बन्धि वनं-काननं प्रियं-अभीष्टम् । नलस्येदमितीदमर्थे अण् । अथ च अध्यात्मपक्षे-नीरञ्जनपदे-नीरागपदे, तिष्ठन् हंस:-आत्मा किं क्वापि बध्यते ? न बध्यत एव । यस्य विश्वेभ्यः-समस्तेभ्यः संसारसङ्गेभ्य आलम्बनं-आसक्तिन प्रियम् । विश्वसंसारसङ्गतः इति “पञ्चम्यास्तसिल्" [पा० सू० ५।३।७] । यद्वा, यस्य विश्वेषु संसारसङ्गेषु आलम्बनंआसक्तिर्न प्रियं, तत्पक्षे “सार्वविभक्तिकस्तस्" [ ] ॥ १९ ॥ अन्यच्च-पुनरपि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy