SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १२९ द्वितीय उच्छ्वासः आगतमतिथिं सिन्दुवारमञ्जरीभिरर्चयति, तथा राजा हंसं दन्तकान्तिभिरेव सिन्दुवारमञ्जरीभिरपूजयत् । दन्तकान्तिस्तच्छरीरे संक्रान्तेत्यर्थः । असावपि प्रणयप्रणतशिराः शुचिरोचिषां चयेन पाण्डुपुष्पप्रकरण' प्रतिपूजयन्निव 'देव, भवदवलोकनाह्लादितमनसो ममाद्य स्वागतम्' इति ब्रुवाणो राजानं रञ्जयाञ्चकार । ___ असावपि-हंसः प्रणयेन-स्नेहेन प्रणतं-नम्र शिरो यस्याऽसौ, ईदृशः शुचिरोचिषांनिर्मलकान्तीनां यश्चयः-समूहस्तद्रूपेण पाण्डुः-धवलो यः पुष्पप्रकरः-विकीर्णकुसुमानि तेन प्रतिपूजयन्निव-प्रत्यर्चयन्निव राजानं-नलं रञ्जयाञ्चकार-साह्लादमकरोत् । किं कुर्वाणः ? हे देव ! भवदर्शनेन-त्वदालोकनेन आह्लादितं-हृष्टं मनो यस्य स तस्य, मम अद्य स्वागतं-शोभनमागतं आयातं यद्भवान् दृष्ट इति ब्रुवाणः-वदन् । अत्रान्तरे त्रासतरलतारक मकाण्डाडम्बरितबाष्पप्लवप्लवमानमिव वहन्ती चक्षुः, उत्क्षिप्तपक्षपत्रपल्लवव्याजेन संगृहीते सहचरे शाखोद्धारमिव दर्शयन्ती, हंसी दूरादवनिपालमवाप्य रूप्यमयघण्टा टंकारकोमलया गिरा श्लोकद्वयमपठत् । अत्रान्तरे-अस्मिन्नवसरे हंसी दूराद्-विप्रकृष्टदेशात् अवनिपालं-नृपमवाप्य रूप्यमयी या घण्टा तस्या यष्टङ्कारस्तद्वत्कोमलया-सुकुमारया गिरा-वाण्या श्लोकद्वयमपठत् । किम्भूता ? ईदृशं चक्षुर्वहन्ती-धारयन्ती । किम्भूतम् ? त्रासेन-भयेन तरला तारकाकनीनिका यस्मिस्तत् । उत्प्रेक्ष्यते-अकाण्डे-असमये आडम्बरितः-आरब्धो यो बाष्पप्लव:अश्रुप्रवाहस्तस्मिन् प्लवमानमिव-मज्जदिव, अनेन अश्रुबाहुल्योक्तिः । पुनः किं कुर्वन्ती ? सहचरे-सहाये हंसे संगृहीते-राज्ञा कररुद्ध कृति सति पक्षौ च-पक्षती पत्राणि च-पिच्छानि तान्येव कोमलत्वात् पल्लवाः पक्षपत्रपल्लवा उत्क्षिप्ता-ऊर्वीकृता ये पक्षपत्रपल्लवास्तेषां व्याजेन-मिषेण शाखोद्धारं-अन्यायपूत्कारचिह्न शाखाग्रहणमिव दर्शयन्ती। अन्यस्याऽपि कस्यचित् केनचित् किञ्चिद्पराधं भवति सोऽपि तदन्यायपूत्कारचिह्न शाखाग्रहणं राज्ञः पुरो दर्शयति, तथेयमपि हंसी पक्षती उच्चैविधाय मन्ये शाखोद्धारमेव दर्शयतीति । अयं भावो हे देव ! त्वया मत्पतिग्रहणान्महानन्यायः क्रियते, इत्युत्क्षिप्तपक्षाभ्यां ज्ञाप्यत इति । श्लोकद्वयमेवाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy