SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १२८ दमयन्ती-कथा-चम्पू: राजा' तु तदाकर्ण्य सविस्मयम् 'अहो अस्य धैर्यं मनुष्यसन्निधौ२, आश्चर्यं रूपे, माधुर्यं वाचि, प्राचुर्यं प्रज्ञायाम्, औदार्यमर्थे , गाम्भीर्यं वर्णव्यक्तौ । प्रायेणाहारमैथुननिद्राभयभ्रमणमात्रविवेकासु कथं प्रागल्भ्यमेतत्पक्षिजातिषु । तदेष विहङ्गव्यञ्जनः३ कोऽपि कामचारी भविष्यति ॥ सर्वथा मनसापि नावज्ञेयाः सर्वे' प्राणिनः । “यतः कामतः कर्मतः शापतो वा संछन्नरूपाण्यपि भ्रमन्ति विविधाश्चर्यभाञ्जि भूतानि इति चिन्तयन्नुचितज्ञस्तमीषदुल्लसितसिन्दुवारमञ्जरीभिरिव कुन्दकान्तदन्त दीप्तिभिरर्चयन्स्वागतमपृच्छत् । राजा तु नलस्तद्भङ्गश्लेषोक्तिरूपं वाक्यं सविस्मयं-साश्चर्यं यथा स्यात्तथा आकर्ण्य-श्रुत्वा इति चिन्तयन् तं-हंसं स्वागतं सुखागमनवा अपृच्छत्-पप्रच्छ । इतीति किम् ? अहो इति विस्मये, अस्य-हंसस्य मनुष्यसन्निधौ-पुरुषसविधेऽपि धैर्य-धीरता । अहो इति अग्रेऽपि योज्यम् । तथा अस्य रूपे-आकृतौ आश्चर्य-अद्भुतत्वं । तथा वाचिवाण्यां माधुर्यं-मधुरता । तथा प्रज्ञायां-बुद्धौ प्राचुर्य-प्रचुरता । तथा अस्य अर्थे-व्याख्यायां औदार्य-उदारता। तथा अस्य वर्णव्यक्तौ-अक्षरविवेचने गाम्भीर्य-गम्भीरता, अर्थद्वयात्मकत्वात् । प्रायेण-बाहुल्येन आहारः-भक्षणं मैथुनं-कामके लिनिद्रा-स्वापः भयंपरस्माद्भीतिभ्रंमणं-इतस्ततः पर्यटनं तन्मात्र एव-तस्मिन्नेव विवेकः-चातुर्यं यासां तास्तथाविधासु पक्षिजातिषु, कथमेतत् प्रागल्भ्यं-धार्यम् ? तत्तस्माद्धेतोः एष-कोऽपि विहङ्गेन-पक्षिरूपेण बाह्याकृत्या व्यज्यते-ज्ञायत इति विहङ्गव्यञ्जनः-विहङ्गलक्ष्मा कामचारी-विद्याधरादिभिर्भविष्यति । "व्यञ्जनं श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ" इत्यनेकार्थः [३।४३८] । सर्वथा-सर्वप्रकारेण मनसाऽपि प्राणिनः-जन्तवो नावज्ञेया-न अवगणनीया । यतो यस्माद्धेतौः भूतानि-प्राणिनः कामतः-स्वेच्छया, तथा कर्मत:-कार्यात्, तथा शापतो वा ऋषीणां शापात्, सञ्छन्नरूपाणि-आवृतप्रकृत्याकाराणि विविधानि आश्चर्याणि भजन्तीति, तादृशि भ्रमन्ति । एभिः-कामादिभिः कारणैः स्वीयं रूपं परित्यज्य अन्यरूपेण प्राणिनः पर्यटन्तीति । किम्भूतो राजा? उचितं-योग्यं यस्मिन् समये यद्विधेयं तज्जानातीति उचितज्ञः । पुनः कुन्दः-पुष्पविशेषस्तद्वत् कान्ता-उज्ज्वला या दन्तदीप्तयःदशनच्छवयस्ताभिरर्चयन्-पूजयन् । उत्प्रेक्ष्यते-ताभिः काभिरिव ? ईषन्-मनाक् उल्लसिताः-विकसिताः सिन्दुवारस्य-निर्गुण्ड्या मञ्जर्यस्ताभिरिव । अन्योऽपि उचितज्ञ १. चिन्तयन् विचारयन् अनू. ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy