________________
१२७
द्वितीय उवासः अपि च -
वरेति । आर्यावृत्तम् । हे वरसहकारक ! वराः सहकारकाः-सचिवादयो यस्य स तस्य सम्बुद्धौ हे वरसहकारक !, तथा रञ्जयतीति रञ्जकस्तत्सम्बुद्धौ हे रञ्जक ! तथा वीराणां-सुभटानामिव तरः-बलं यस्येति तत्सम्बुद्धौ हे वीरतर ! सम्बुद्धौ न दीर्घः । तथा न विद्यते शोकः-शोचनं यस्य स तत्सम्बुद्धौ हे अशोक !, एतेन धीरत्वोक्तिः । तथा मदन इव रूपेण काम इव यः स तत्सम्बुद्धौ हे मदन !, तथा हे पुन्नाग !-पुरुषश्रेष्ठ ! नागशब्दः प्रशंसायाम् । हे विविधद्रुममयराजन् ! कथं क्वापि न बिभीतकः कलिर्नासि, यो हि विविधद्रुममयो भवति स बिभीतकोऽपि स्यात्, त्वं च तथा नाऽसि । प्रकृते तु विशेषेण भीतो विभीतको भीरुर्नाऽसि । कुत्सायामनुकम्पायां वा कः । विविधद्रुममयेति पदाद् द्रुमार्थोप्यभ्यूह्यस्तथा सहकारश्च-आम्रः, करञ्जः-नक्तमाल: वीरुतरु:-नदीसर्जः । तथा चामरसिंहः-"नदीसों वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः [२।४।४५] । अशोक:-कङ्केल्लिः , मदनः-शल्यः यत्फलं विवाहे वधूवरपाणौ बध्यते । पुन्नागः-सुरपर्णिका इति विविधद्रुममयत्वं । कथमिति विरोधे ॥ १६ ॥ अपि च-पुनः
बाणकरवीरदमनकशतपत्रकबन्धुजीवकसुजाते ।
नृप विविधविटपि'रूपस्तथापि विटपः कथं नासि ॥ १७ ॥ बाणेति । आर्यावृत्तम् । बाणः करवीरो दमनकः शतपत्रकं बन्धुजीवकं जातिश्चेति विटपिनः सम्बोधनपदे योज्याः । हे नृप !-राजन् ! असि त्वं विविधविटपिरूपःविचित्रतरुमयः शब्दतो नार्थतः, अर्थतस्तु बाणा:-शराः करे यस्य तत्सम्बुद्धौ हे बाणकर ! तथा वीरान् दमयतीति वीरदमनस्तत्सम्बुद्धौ हे वीरदमनक ! तथा शतसंख्यं पत्रं-वाहनं यस्य स तत्सम्बुद्धौ हे शतपत्रक !, "शेषाद्वा" [पा० सू० ५।४।१५४] इति कः । तथा बन्धून्-स्वजनान् जीवयसि-उपकरोषीति बन्धुजीवकस्तत्सम्बुद्धौ हे बन्धुजीवक! तथा शोभना जाति:-क्षत्राख्या यस्य तत्सम्बुद्धौ हे सुजाते !, तथापि विटप:-शाखा कथं न? यो हि विविधविटपिरूपो भवति स कथं न विटप: स्यात् । प्रकृते तु त्वं न विटप:-षिड्गः । यद्वा न विटान्-पासीति विटपः, अपात्रभर्ता नेत्यर्थः । असीत्यव्ययं त्वमित्यर्थे । कथमिति विरोधोद्भावने । “विटपः पल्लवे स्तम्बे विस्तारे षिङ्गशाखयोः ।" इत्यनेकार्थः [३। ४७५]। विस्तारोऽर्थाद् वृक्षस्य । ॥ १७ ॥
१. तद्यथा अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org