________________
द्वितीय उच्छ्वासः
१२३ गगनमन्दाकिनी-नभःसुरसरित्, अतएव तस्याः पतन्ति यानि पाण्डुरडिण्डीरपिण्डपटलानिश्वेतफेनपिण्डजालानि तानि विडम्बयन्तः-अनुकुर्वन्तः । तथा शकलानि-खण्डानि उदितानिउद्गतानि यानि इन्दुमण्डलानि तेषां यत्सहस्रान्तेन संछादितं-आवृतमिव गगनं आपादयन्तःसम्पादयन्तः, खण्डशशिनो हंससदृशा एव भवन्त्यतस्तेषां भ्रमः । तथा मन्दरगिरिरेव-मेरुरेव परिक्षेपः-मन्थास्तेन क्षुभित:-मथितो यः क्षीरवारिधि:-क्षीरसमुद्रस्तस्माद् दूरे समुच्छलिताउल्ललिता ये दुग्धकल्लोलास्तेषां लीलां-शोभां दर्शयन्तः । शङ्के, हंसा अमी न भवन्ति किन्तु क्षीराब्धेरुच्छलिताः पयःकल्लोला इति । तथा शेषाहे:-शेषनागस्य फणाः चक्रवालवत्-स्फटसमूहबद्धवला: श्वेताः । उत्प्रेक्ष्यते, मूर्तिमन्तः-सदेहाः पतन्तः प्रमुदितस्य हरस्य-शम्भोरट्टहासलवा इव, हासस्य श्वेततया वर्णनमिति कविसङ्केतः । पुनः किम्भूता ? अमन्देन-अनल्पेन मदेन-हर्षेण कल:-मनोज्ञः कोलाहल:-कलकलस्तेन भरितं-पूरितं भुवनान्तरालं-भुवनमध्यं यैस्ते तथाविधाः । तथा पुण्डरीकवत्-सिताम्भोजवत् पाण्डुः-श्वेता, पक्षपत्रराजिर्येषां ते तथाविधाः । यद्यपि पक्षपिच्छयोरभिधानकृता न भेदः प्रत्यपादि तथापि महदेवान्तरं । यतः-पक्षशब्देन पक्षती एव, पिच्छशब्देन तु तदंशोऽभिधीयते ।।
तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिश्चलनीलोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिजनो नरपतिरवलोकयन्निश्चल एवावतस्थे ।
तथाविधे च व्यतिकरे-यस्मिन्नवसरे ते निपेतुस्तस्मिन्नेवावसरे सपरिजन:सपरिच्छदो नरपतिः-नलः तान् अवलोकयन्-वीक्षमाणो निश्चल एवावतस्थे-स्थितः । किम्भूतो नरपतिः ? विस्मयेन-तत्समागमनोत्पन्नाश्चर्येण विस्मृतः-नष्टो निमेष:-नेत्रयोनिमीलनं यस्य स तद्भावस्तत्ता, तया हेतुभूतया निर्वातेन-वाताभावेन निश्चलं यन्नीलोत्पलस्य पलाशं-पत्रं तद्वत्, अशोभावती शोभावती भवती शोभायमाने-लीलायमाने लोचते-नेत्रे यस्य स । यादृग् वाताभावे नीलोत्पलदलं निश्चलं वीक्ष्यते । तथा कौतुकाकुलिततया निमेषाभावेन नेत्रे निश्चले वीक्ष्यते,' इत्यर्थः । शोभायमानेत्यत्र शोभाशब्दात्तद्वति वर्तमानादायिः । एवं विभ्रायमाणेत्यादयोऽपि व्याख्येयाः । पुनः किम्भूतः ? कौतुकाकूतेन-कुतूहलाभिप्रायेण तरलितं-चञ्चल्योपेतं मनो यस्याऽसौ तथाविधः ।
अथ तेषां केलिलीलामाह
१. वीक्ष्येते अनू. । २. चाञ्चल्योपेतं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org