SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः १२२ यत्र तत्तस्मिन् । पुन: किम्भूते ? भृङ्गाणां - धूम्याटपक्षिणां मुखैश्च चञ्चुभिः नखरपञ्जरेण च-नखजालेन जर्जरिता :- खण्डिता याः खर्जूरमञ्जर्यस्तासां रजःपुञ्जेन - परागसमूहेन पांसुला - रजस्वला भूर्यत्र तत्तस्मिन् । तत्र च व्यतिकरे प्रलयप्रचण्ड 'पवनोल्लालित े तनुतुहिनाचलगण्डशैललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः, सुरवारणविक्षोभितगगनमन्दाकिनीपतत्पाण्डुर" डिण्डीरपिण्डपटलानि विडम्बयन्तः शकलोदितेन्दुमण्डलसहस्त्रसंछादितामिव गगनमापादयन्तो मन्दर गिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्छलितदुग्धकल्लोललीलां दर्शयन्तः, "शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहासलवा इव मूर्तिमन्तः पतन्तः, अमन्दमदकलकोलाहल' भरितभुवनान्तराला, सपदि धरामण्डलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपत्रराजयो राजहंसा : १० । तत्र च व्यतिकरे - तस्मिश्चावसरे राजहंसाः सपदि शीघ्रं पतनसमकालमेव धरामण्डलं भूतलं उत्फुल्लानि विकसितानि पाण्डूनि धवलानि यानि पङ्कजानि - पद्मानि तेषां यः प्रकरः-समूहस्तस्य प्रकारेण - निर्देशस्य भावप्रधानत्वात् प्रकारत्वेन सादृश्येन उत्फुल्लपाण्डुपङ्कजप्रकर इव मण्डयन्तः । यथा भूः पाण्डूत्फुल्लाब्जैः शोभते तथा विभूषयन्तः सन्तः कुतोऽपि - कस्माच्चित्प्रदेशान्निपेतुः पतन्ति स्म । " प्रकार: सदृशे भेदे " इत्यनेकार्थः [३।६०८] । किं कुर्वन्तः ? प्रलयस्य - प्रलयकालस्य प्रचण्डो यः पवनस्तेन उल्लालिताः-उच्छालितास्तनव: - लघवो ये तुहिनाचलस्य - हिमालयस्य गण्डशैलाःगिरेश्च्युतस्थूलपाषाणास्तेषां लीलां -शोभां आकलयन्तः - बिभ्रतः, मन्येऽमी हंसा न निपेतुः किन्तु प्रचण्डमरुता उच्छालितास्तुहिनाचलस्य गण्डशैला एवेति । तथा मन्दमरुताअल्पवातेन तरङ्गाणि जाततरङ्गाणि उपचारात्तरङ्गाकृतीनि तनुतराणि अतिलघूनि यानि शरदभ्राणि तद्वत् विभ्रमवन्तः - विलासवन्तो भवन्तो विभ्रमायमाणा ये ते मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः । तरङ्गितेति "तारकादित्वादितच्" [ तदस्य सञ्जातं तारकादिभ्य इतच् [पा० सू० ५ । १ । ३६ ] ] | तथा सुरवारणेन - ऐरावणेन विक्षोभिता - गाहिता या १. विहसितानि अनू. । Jain Education International " For Personal & Private Use Only - www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy