________________
द्वितीय उच्छ्वास:
त्तंस' कमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दरामोदे २ मन्दतरमारुतान्दोलन विलोलकक्कोलकुट्मलफल 'नालिकेरलवङ्गपूगपुंनागनारङ्गरङ्गितविहङ्गे'
भृङ्गमुखनखरपञ्जर‘जर्जरितखर्जूर ̈मञ्जरीरजःपुञ्जपांसुलभुवि, भुवो भूषणायमाने, सर्वतुनिवासनामनि' वने विहर्तुमारभत ।
ततश्च । तत:-अनन्तरं नलः एवं विधे भुवः - भूमेर्भूषणायमाने - मण्डनोपमे सर्वर्तुनिवासनामनि'–सर्वर्तुनिवासाभिधाने वने विहर्तुं विचरितुमारभत - प्रयत्नं कृतवान् । किम्भू वने ? सञ्चरन्त:- मधुपुष्पफलाद्यास्वादनाय प्रवर्तमानाश्चटुला:- चञ्चला ये भृङ्गाश्च विहङ्गाश्च तैर्वेल्लन्त:-कम्पमाना ये बकुलाश्च चम्पकाश्च चूताश्च - आम्रा: चन्दनानि च मन्दाराश्च - कल्पवृक्षास्तेभ्यो अमन्दा: - अनल्पाः स्यन्दमाना:- क्षरन्तो ये मकरन्दबिन्दवः-कुसुमजकणास्तेषां संदोहेन-समूहेन आडम्बरिता - आरब्धा अकाण्डे - असमये प्रावृट्-वर्षाकालो यस्मिंस्तत्तस्मिन् । यद्यपि तदानीं वर्षासमयो नास्ति तथापि मकरन्दबिन्दुवृन्दस्यन्दनेन तदानीमसमयेऽपि वर्षाः प्रादुरासन् इति । " मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । [२।२३५] गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ।" इत्यनेकार्थः [ २।२३५-२३६] | पुनः किम्भूते ? निम्बाश्च किम्बाश्च जम्बीराश्च जम्ब्वश्च निम्बकिम्बजम्बीरजम्ब्वः प्रलम्बाभि:दीर्घाभिस्ताम्बूलवल्लीभिर्वलयित: - वेष्टितो नितम्ब :- मध्यभागो यासां ईदृग्विधा या निम्बकिम्बजम्बीरजम्ब्वस्तासां यानि स्तबकानि-गुच्छास्तेषां कदम्बकं - वृन्दं यत्र तत्तस्मिन् । तथा कुसुमिता:- पुष्पिताः करवीराणां - हयमाराणां वीरुधः - लता यत्र तत्तस्मिन् । तथा कोरकिता:-कलिकां प्राप्ताः ये करञ्जाश्च अञ्जनाश्च तेषां निकुञ्जे-कुडङ्गे सिञ्जाना:कूजनशीलाः शुकाश्च कपिञ्जलाश्च पक्षिविशेषा यस्मिंस्तत्तस्मिन् । तथा जलदसमयस्य यो नीरदः-मेघस्तद्वन्नीलाः कृष्णाः ये तमालतरवस्तेषां तले जलदभ्रान्त्या ताण्डविता:-नृत्यं कुर्वन्तः शिखण्डिन:- मयूरा यत्र तत्तस्मिन् । जलदसमय इति पदं नीरदस्य जलभृतत्वं द्योतयति, तदा च नीलत्वं घटत एवेति । तथा मण्डलिताः - पंक्त्या व्यवस्थिता मदेन-हर्षेण कला:-मधुरस्वराः ये कलहंसास्त एवोत्तंसः - शेखरो यासां ईदृश्यो याः कमलवाप्यस्ताभिर्मण्डितं - भूषितं यत्तत्तस्मिन् । तथा मञ्जरिता:- सञ्जातमञ्जरीका: ये सिन्दुवारा:-निर्गुण्डीतरवस्तेषां सुन्दर:- रम्य आमोदः - परिमलो यस्मिंस्तत्तस्मिन् । तथा मन्दतर:-अतिशयेन अल्पो यो मारुतः - वायुस्तेन यदन्दोलनं - वेपनं तेन विलोलानिचपलानि यानि कक्कोलानां - कोशफलानां कुड्मलानि - मुकुलानि फलानि च, तथा नालिकेराश्च लवङ्गानि च पूगाश्च - क्रमुकाः पुन्नागाश्च नारङ्गाश्च तेषु रङ्गिता:- क्रीडिता: विहङ्गा
१. 'सर्वर्तुनिवासनामनि' नास्ति अनू. ।
१२१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org