________________
द्वितीय उच्छ्वासः
११७ इतोऽपि
हरितीति । मालिनीवृत्तम् । हरिणयूथं-मृगकदम्बकं हरिति-शाद्वले यूथिकाजालस्य-मागधीलतासमूहस्य मूले-अधःप्रदेशे मधुरं-श्रोत्रसुखकारि यन्मधुकराल्याःमधुपपंक्तेर्गीतं-झङ्कारारवस्तस्मिन् दत्तमवधानं-चित्तैकाग्रयं येन ईदृशं सत् दुर्वापल्लवान्दूर्वाकिसलयानि न उल्लुनाति-न खादति । उत्पेक्ष्यते-हरिणयूथं किमिव ? लिखितमिवआलेख्यभूमौ चित्रितमिव । यथा चित्रितं हरिणयूथं पल्लवान् न खादति तथेदमपि । किम्भूते यूथिकाजालमूले ? कुसुमजा ये मधुबिन्दवः-मकरन्दपृषतास्तेषां यः स्पन्द:-क्षरणं तस्य संदोहं-समूहं भजति तत्तत्तथाविधे । मधुबिन्दुसंदोहसम्बन्धात् स्पृहणीयेऽपि गीतरसिकतया मृगाणां दूर्वाङ्कराग्रहणमुक्तम् ॥ ६ ॥ इतोऽपीति । हे देव ! अस्मिन्नपि प्रदेशे
सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित । यस्मिन्नासन्नसारङ्गा सारं गायति किन्नरी ॥ ७ ॥ राजते राजतेनायं सानुना सानुनायकः ।
यस्मिन्निशम्य गायन्तं किन्नरं किं न रंस्यते ॥ ८ ॥ इतश्च
सोऽयमिति । अनुष्टुप्वृत्तम् । हे भव्य ! हे लोभव्यसनैर्वर्जित ! सोऽयं क्रीडाचल:क्रीडागिरिवर्तते । यस्मिन् क्रीडाचले किन्नरी सारं-उत्कृष्टं गायति । किम्भूता किन्नरी? आसन्नाःनिकटवर्तिनः सारङ्गाः-मृगा यस्याः सा, गीतप्रकर्षाकृष्टत्वात् सारङ्गाणामामन्त्रता ॥७॥
राजत इति । अनुष्ट वृत्तम् । अयं, सानुनायक:-गिरिः राजते न रजतनिर्मितेन, सानुना-तटेन राजते । यस्मिन्-गिरौ गायन्तं किन्नरं निशम्य-श्रुत्वा किं न रंस्यते ?-त्वया न क्रीडिष्यते ? अपितु रंस्यत एव ॥ ८ ॥
इतश्च हे देव !
जनयति जलबुद्धि बाललीलामृगाणामयमिह पटुकान्तिः स्फाटिको भित्तिभागः ।
१. आसंगता अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org