SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ११६ अपि च इतश्च मृदुमदकलकेकानिर्भरो नृत्यसक्त - १ स्तरलयति कलापं मन्दमन्दं मयूरः ॥ ४ ॥ भ्राम्यद्विरेफाणि विकासभाञ्जि, संयोज्य पुष्पाणि शिलीमुखेषु । इह स्थितः सर्वजगज्जयाय, धनुःश्रमं पुष्पशरः करोति ॥ ५ ॥ दमयन्ती - कथा - चम्पूः पटलमिति । मालिनीवृत्तम् । मयूरः- केकी पुष्पितानां कुसुमितानां तरूणामुपरि उन्नमन्-वर्षार्थं कृतप्रयत्नो यो मेघस्तद्वन्नीलं - कृष्णवर्णं भ्रमत्- कुसुममधुपानाय पर्यटत् अलिकुलानां पटलं-वृन्दं विलोक्य मन्दं मन्दं - शनैः शनैर्नृत्यसक्त:- ताण्डवप्रवृत्तः सन् कलापं-पिच्छं तरलयति - कम्पयति, ताण्डवाय सज्जीकुरुत इत्यर्थः । किम्भूतो मयूर : ? मृद्वी - श्रोत्रसुखावहा मदेन कला - रम्या या केका - मयूरध्वनिस्तया निर्भर:-भृतस्तां कुर्वन्नित्यर्थः । तरुशिखरेषु भ्रमदलिकुलं दृष्ट्वा मयूरस्य मेघभ्रान्तिरभवद् यदयं मेघ इति, तत: केकायते नृत्यति चेति भावः । मयूर इति जात्येकवचनं । कालविरुद्धनृत्ये तु मधुपपटले घनभ्रान्तिरेव निबन्धनम् ॥ ४ ॥ अपि च- पुनः हे देव ! भ्राम्येति । उपजातिवृत्तम् । इह-वने स्थितः सन् पुष्पशर:- कामः सर्वजगज्जयायत्रिलोकीविजयाय धनुषः श्रमं - व्यायामं करोति । अन्योऽपि यो वैरिजयाय धनुःश्रमं करोति सोऽप्येकान्ते वनादौ करोति तथाऽयमपि । किं कृत्वा ? पुष्पाणि शिलीमुखेषु - शरेषु संयोज्य - मीलयित्वा, पुष्पाणि बाणस्थानीयानि विधायेत्यर्थः । किम्भूतानि पुष्पाणि ? भ्राम्यन्त:-मधुलिलिक्षया पर्यटन्तो द्विरेफा येषु तानि, तथा विकासं - प्रफुल्लतां भजन्ति यानि तानि विकासभाञ्जि-विकस्वराणि । इहेत्युद्यानस्योद्दीपनविभावातिशयोक्ता कामस्य स्थितिरूह्यते । एतावता सुरभिकुसुमसम्पदुक्ता ॥ ५ ॥ वनपालिका पुनर्विनोदस्थानं दर्शयति इतश्चेति । हे देव ! इतश्च-अस्मिन्प्रदेशे– Jain Education International हरिति हरिणयूथं यूथिकाजालमूले, कुसुमजमधुबिन्दुस्पन्दसंदोहभाजि । मधुरमधुकरालीगीतदत्तावधानं, लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥६॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy