SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ११८ दमयन्ती-कथा-चम्पूः इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥ जनयतीति । मालिनीवृत्तम् । इह-क्रीडापर्वते अयं प्रत्यक्षेण वीक्ष्यमाणः स्फाटिक:-स्फटिकमणिनिर्मितो भित्तिभाग:-कुड्यप्रदेश: बाला:-अर्भका ये लीलामृगाःकेलिहरिणास्तेषां जलबुद्धि-पानीयमति जनयति-करोति । किम्भूतो भित्तिभागः ? पट्वीमलाभावादुज्ज्वला कान्ति:-छविर्यस्य स । तथाविध श्वेतां स्फटिकच्छविं वीक्ष्य बालमृगाः पानीयमिति मत्या पातुं प्रवर्तन्त इत्यर्थः। हे देव ! इह पर्वतैकदेशे हरितमणीनां-नीलमणीनां उल्लसन्तः-प्रवर्धमानाः मयूखाः-किरणाः बाललीलामृगाणां सरसा-स्वादवती नवा-सार्द्रा या तृणाली तस्या लोभं-गायँ अभिलाषमुत्पादयन्ति । तन्मणीनां नीलानंशून् वीक्ष्यते इति वितर्कयन्ति । यदमी तृणाकुरा इति, ततस्तद्भक्षणाय प्रवर्तन्त इत्यर्थः ॥ ९ ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥ अपि च इयं चेति । गौरवमिति । हे देव ! इयं च भ्रमरी अकुरुतेन-अकुत्सितशब्देन ईदृशस्य ते-तव गौरवं-आगतस्य प्रतिपत्तिविशेषं कुरुते । अन्योऽपि धन्यः कश्चित्-कुतश्चिद् यदागच्छेत्तदा तस्य स्वागतमित्यादि, मधुरस्वरेण वाचिकी प्रतिपत्तिः क्रियते तथा भृङ्गचपिर विधत्त इत्यर्थः । किम्भूतस्य ते ? गौर:-विशुद्धो वंशः अन्वयो यस्य स तस्य । “गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ।" इत्यनेकार्थः [२।४२५] । पुनः किम्भूतस्य ते ? पर्वतस्थले-गिरिस्थले पर्वतः-गच्छतः, अत एव भ्रमण-देहवैक्लव्येन भ्रमिसंज्ञेन रीणस्यखिन्नस्य ॥१०॥ अपि च-पुनः इह कवलितकन्दं कन्दरे कन्दलिन्यां, भुवि विरचितकेलिःक्रीडति क्रोडयूथम् । इह सरसिजगन्धभ्रान्तभृङ्ग कुरङ्गाः, सरसि सरलयन्तः कंधरां कं धयन्ति ॥११॥ १. गौरेति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy