SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः यस्मिंश्च मत्तमयूरहारिणि भद्रभुजङ्गप्रयाते विचित्रक्रौञ्चपदे छन्द:शास्त्र' इव वैतालीयं मालिनी' शिखरिणी पुष्पिताग्रा च दृश्यते विविधा जातिः । ११४ यस्मिंश्च - एक भीमार्जुनविनिर्जितानाक्रान्तानेकभीमार्जुनाः, कोपि - तैकनकुलानाह्वादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननेकैः सहदेवैः सङ्गताः न बहु मन्यन्ते कुरुवीरान्वीरुधः । किं चान्यदवलोकयतु देवः । ईदृशे वनमार्गेण स्तोकं कियत् अन्तरं - अवकाशं व्यवधानं अतिक्रान्तःउल्लंघितवानेष नलस्तया - वनपालिकया पुनर्बभाषे । कीदृशेन वनमार्गेण ? चलन्तो ये चकोरा:- चलचञ्चवस्तेषां याश्चञ्चवः - त्रोटयस्ताभिस्तथा चञ्चलाः- चपला ये चञ्चरीका:अलयस्तेषां चरणैश्च अंह्निभिक्षूर्णिताः खण्डिता ये चम्पकाङ्कुराः - हेमपुष्पकप्ररोहास्तथा मरिचानां मञ्जर्यो दलानि च - पत्राणि तैर्दन्तुरः - सञ्चारयोग्यस्तेन । हे देव ! पुरन्दरं - शक्रमानन्दयतीति पुरन्दरानन्दि यन्नन्दनोद्यानं - नन्दनवनं तत् स्पर्द्धते - संहृष्यति तदनुकारं भजतीत्येवं शीलं यत्तत् पुरन्दरानन्दिनन्दनोद्यानस्पर्द्धि, तथाविधस्य अस्य वनस्य किं वर्ण्यते ? - किं श्लाघ्यते ? सर्वस्याप्यस्य वर्णनीयस्वरूपत्वात् । तदेवाह यत्रेति । यत्र-वने तरवः - वृक्षा लङ्केश्वरं रावणं समुपहसन्ति - तिरस्कुर्वन्ति । कथम् ? किम्भूतं रावणम् ? त्रिजटा रावणस्वसा तस्या आश्रयः - आधारो भ्रातृत्वात् यः स तम् । किम्भूतास्तरवः ? अनेकाः जटामूलानि येषां ते तथाविधाः । पुनः किम्भूतं रावणम् ? स्फुरद्-दीप्यमानमेकं-उत्कृष्टं पुष्पकं विमानं यस्य स तम् । किम्भूतास्तरवः ? अनेकानिबहूनि पुष्पाणि येषु ते तथाविधाः । तथा किम्भूतं रावणम् ? समुद्वेजितः - सीतापहरणात् उद्वेगं प्रापितो रामः - दाशरथिर्येन स तम् । किम्भूतास्तरवः ? आनन्दिताः - प्रमोदिता ? रामा:स्त्रियो यैस्ते । तथाभूताः हासस्तु तुल्यार्थमधिकृत्य स चैवं सति तिसृणां जटानामाश्रयः, अमी अनेकजटाः । स स्फुरदेकपुष्पकः - स्फुरदेककुसुमः, अमी अनेक पुष्पकाः । स समुद्वेजित रामः पीडितवनित: ३, अमी आनन्दितरामा इति समाधिपक्षस्तूक्त एव । अनेकजटा इति एकशब्देन संख्या उपलक्ष्यते ततोऽनेकशब्दो असंख्यातवचनः । १. 'प्रमोदिता' नास्ति अनू. । २. स. अनू । ३. पीडितवन: अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy