________________
द्वितीय उच्छ्वासः
११३ भान्ति । किम्भूते वने ? नारङ्गतरुभिः कृतशोभे । तथा वने नागेभ्यः-अहिभ्यो रुचिताःअभीष्टाश्चन्दनतरोः पत्राणां भङ्गाः-विशेषा भान्ति । तथा वने नालिकेरैस्तरुभिश्चित:व्याप्तस्तिलको भाति । तथा नवा-नवीना अञ्जनस्य शाखिनो यष्टि:-प्रकाण्डो दृष्टिपथमवतरति । तथा वने नीला:-नीलवर्णाः ह्रस्वास्तमालास्तमालकाः ह्रस्वेकः पश्चात्कर्मधारयः, अत एव नाभिरम्या-नाभिदध्ना इति भावः, वीक्ष्यन्ते । तथा वने ताम्बूलीनां-नागवल्लीनां राग:-प्रसक्ति धरीकृतः-न हीनीकृतो दृश्यते, स्थाने स्थाने तासां सद्भावात् । तथा पल्लवितंजातकिशलयं अशोकानां जालं-खण्डं दृश्यते ।
पुनराह-हे देव ! इतश्च-अस्मिन्प्रदेशे सुष्ठ रचितः-निर्मितः क्रीडापर्वतः-केलिशैलो दृश्यते । क इव ? काञ्चनगिरिरिव-मेरुरिव । स च कीदृशः ? सुरैः-देवैश्चित:-व्याप्तः । हे नृप ! इतश्च वीक्षस्व, न खण्डिताः-त्रोटिताः प्रवाला:-पल्लवा यत्र तत्, ईदृशं बालशालवनं-नवीनशालतरुकाननं वर्तते । किमिव ? गूर्जराणां-गूर्जरदेशोद्भवानां नराणां कूर्चमिव-श्मश्रू इव । किम्भूतं तत् ? अखण्डिता:-क्षुरादिना अच्छिन्ना अतएव प्रवृद्धाः बाला:-केशा यत्र तत्तथाविधं भवति । हे देव ! इतश्च अनेकविधैः-नानाप्रकारैर्बकुलैः संकुलं-व्याप्तं कूपकुलं वीक्ष्यते । किमिव ? भवतो वैरिणां नगरमिव । किम्भूतं तत् ? अनेका विधवाः-मृतभर्तृका येषु कुलेषु तैर्कुलैः-गोत्रैः संकुलं, तद्भर्तृणां त्वया हतत्वात् । हे नृप ! इतश्च पुंनागैः-तरुविशेषैर्वेष्टितः-परिकरितो वापीपरिसरो वीक्ष्यते । क इव ? धूर्जटिजटाजूट इव-ईश्वरकपर्द इव । स च कीदृशः ? पुमान् नाग:-वासुकिस्तेन वेष्टित:उद्ग्रथितः । हे देव ! इतश्च प्रदेशे कृताः-उत्पादिता अश्वत्था:-पिप्पला यस्यां सा । तथा महिता च-चार्वी क्रीडासरित:-केलिनद्या: पुलिनपालि:-तटप्रान्तो वर्तते । अत्र पालिशब्दः प्रान्तार्थः, तथा चानेकार्थः-“पालियूकाश्रिपंक्तिषु [३।५०८] । जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसा कर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः' इति [२५०८-५०९] । केव? कुरुसेनेव-कुरुक्षत्रियचमूरिव । सा किम्भूता ? कृतमश्वत्थाम्ने-द्रोणसुताय हितं यया सा ।
चलच्चकोरचञ्चु चञ्चलचञ्चरीकचरणचूर्णितचम्पकाङ कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्तया पुनरेवं बभाषे ।
'देव ! पुरन्दरानन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं वर्ण्यते३' ।
यत्र त्रिजटाश्रयमनेकजटाः, स्फुरदेकपुष्पकमनेकपुष्पा:४, समुद्वेजितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org