________________
११२
दमयन्ती-कथा-चम्पू: काननकौतुकस्थलानि अवलोकयाञ्चकार-व्यलोकयदित्यन्वयः । किम्भूतेन वनमारुतेन ? प्रथमं-पूर्वं सम्मुखं-अभिमुखं प्रेखितः-वल्गितः समागतस्तेन । तथा चलन्ति-वायुना कम्पमानानि यानि चन्दनानि-गोशीर्षतरवस्तेषामामोदेन-परिमलेन नन्दयति-आनन्दयतीति चलच्चन्दनामोदनन्दी तेन । तथा अन्दोलनवेगेन-तरूणां वेपनरहंसा वित्रस्ता-भयाकुला याः कुसुमिततरुशिखरेषु-पुष्पितवृक्षाग्रेषु सुप्ता:-शयिताः सुरतश्रमेण-सम्भोगखेदेन खिन्नाः किन्नर्यः, अतएव ताभिर्निविडतरं-गाढतरं परिरभ्यमाणाः-आश्लिष्यमाणाः ये किन्नरास्तैनमस्कृतेन-प्रणतेन । अनायासं तासां सम्भोगविधानाद् द्वयोरुपकारित्वेन नमस्करणीयत्वम् । तरुशिखरेषु ताः सुरतश्रमखिन्ना: सुप्ता आसन्, ततो वायुवेगेन भीताः सत्य: प्रियानालिलिङ्गरित्यर्थः । तथा क्रीडा) या कमलदीर्घिकाः-सरोजवाप्यस्तासां तरङ्गोत्सङ्गेषुवीचिक्रोडेषु तरुणानि-नवानि यानि तामरसानि तेषां यो रसविसरः-मकरन्दपटलं तस्य उद्गारेण-उद्वमनेन हारी-मनोहरस्तेन, तद्वहनात् तस्योद्वमनं घटत एव । तथा यौवनमदेन निरुद्धा-व्याप्ता या नैषध्य:-निषधदेशोत्पन्नाः स्त्रियस्तासां या धम्मिलवल्लयः-संयता: केशास्तेषां यश्चलनविलासः-इतस्ततोंदोलनलीला तस्य लासक:-नर्त्तकस्तेन । यथा लासकेन नर्तकी नर्त्यते तथा तेन नैषधीधम्मिल्लवल्लरी नर्त्यत इत्यर्थः ।
अथ वनपालिका यदवादीत्तत्प्राह-हे देव !-हे नृप ! भवद्वैरिवधूवदने-त्वदरिस्त्रीमुखे गण्डशैलस्थलस्य अलङ्कारं-मण्डनं कुर्वन्ति यास्ताः कपोलफलकालङ्कारकारिण्यो लोध्रस्य-विलेपनरूपस्य लता:-मण्डपवल्लयो न भान्ति-न शोभन्ते । किम्भूते वदने ? अरं अत्यर्थं गता-नष्टा रूपशोभा-सौन्दर्यं यस्य तत्तस्मिन् । तथा अगरुद्रवेण चिताःव्याप्ताश्चन्दनद्रवस्य पत्रभङ्गाः-पत्रवल्ल्यो न भान्ति । तथा अलिके-ललाटे रचितस्तिलक:विशेषको न भाति । तथा त्वदरिस्त्रीमुखे वा-समुच्चये घनं-सान्द्रं अञ्जनं-कज्जलं तस्य यष्टि:-शलाकादृष्टिः पथं-लोचनमार्ग नावतरति-नायाति, लोचनयो रञ्जनाय न लगतीत्यर्थः । तथा अभिरम्या:-संस्कृताः नीलतमा:-प्रकर्षेण नीला अलका:-कुटिलाः केशाः दष्टिपथं नावतरन्ति, स्नानसमारचनाद्यभावाज्जटाजूटीभूतास्सन्तो विलोक्यन्त इत्यर्थः। तथा भवद्वैरिवधूवदने, न ताम्बूलं हेतुतया विद्यते यस्यासौ ताम्बूली ‘इनन्तः', रागः-अरुणिमा अधरो अस्यास्तीति अधरी-ओष्ठवान् ओष्ठसम्बद्धः कृतः, न ता: भर्तृविरहात्ताम्बूलं खादन्तीति भावः । क्रमुकफलपत्रचूर्णसंयोगस्ताम्बूलम् । तथा त्वदरिस्त्रीमुखे शोकात्-सप्रलापमनोदौःस्थ्याज्जातं शोकजं एतत् आलं-अनर्थः पल्लवितं-प्रवृद्धं दृश्यते । पल्लवितशब्दो लक्षणया प्रबुद्धार्थः । वने च सहजच्युतस्थूलपाषाणस्थलीभूषणा लोध्रस्य-तरुविशेषस्य लताः-शाखा
१. संयोगविधानाद् अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org