________________
१०९
द्वितीय उच्छ्वासः कलमस्य श्वेतशाले गन्धशालेश्च पालिका-रक्षिका बालिकास्तासां या हर्षगीतयः-प्रमोदात्रागसम्बद्धवागुल्लापास्तासु श्रूयमाणासु सतीषु । किम्भूतासु ? स्मरराजस्य-कन्दर्पनृपस्य राज्ये-एकातपत्रत्वे विजयघोषणा इव यास्तासु । अन्यस्यापि राज्यप्राप्तौ जयघोषणा क्रियते, तथा शरदि स्मरेण राज्यं प्राप्तं तत्रैतद् बालिकागानं जयघोषणाप्राप्तमिति । पुनः केषु, सत्सु? नीलनीरजेषु-नीलोत्पलेषु उन्मीलत्सु-विकसत्सु सत्सु । किम्भूतेषु ? शरच्छ्रियःशरल्लक्ष्म्याः कटाक्षा इव-भ्रूविक्षेपा इव ये ते तथा तेषु । विकसन्नीलकमलानि शरच्छ्रीकटाक्षा इव इति । पुनः क्व सति ? षट्चरणचक्रवाले-भ्रमरवृन्दे क्वणति सतिगुञ्जति सति । किम्भूते ? वर्षावध्वः प्रस्थानपटह इव-उच्चलनपणव इव यत्तत्तस्मिन् । अन्योऽपि नृपादिर्यदा चलेत् तदा प्रास्थानिक: पटहो वाद्यत एव, तथा वर्षावधूः प्रस्थिता तत्रामी भृङ्गाः पटहवादनकृत्यं कुर्वन्तीति । पुनः क्व सति ? एवं विधे शरत्समये जाते सति । किम्भूते शरत्समये ? घन एव-मेघ एव तिमिरं तस्य यो विराम:-अपसरणं तेन रमणीयः रम्यस्तस्मित् । शरदि मेघानां निवृत्तेः । कस्मिन्निव ? प्रभात इव । किम्भूते प्रभाते ? घनं-निविडं यत्तिमिरं-अन्धकारं तस्य विरामेण रमणीयं तस्मिन् । पुनः किम्भूते ? जलनिधिरेव-अब्धिरेव शयनं-स्थानं तत्र शेते अभीक्ष्णमिति जलनिधिशयनशायी यः शाी-विष्णुस्तस्य निद्रायै द्रुह्यतीति जलनिधिशयनशायिशाङ्गिनिद्राध्रुट तस्मिन् । शरदि प्राप्तायां हरेर्जागरणात् प्रभातेऽपि निद्राद्रोहः। पुनः किम्भूते ? विनिद्राणि-विकस्वराणि सान्द्राणि-घनानि सरसानि-समकरन्दानि यानि सरोजानि-पद्मानि तेषां राज्या-पंक्त्या राजितं सरो यस्मिन् स तथा तस्मिन् । शरदि धान्यानामुत्पत्तेः१ प्रभातेऽपि विनिद्रसान्द्रसरोजराजितसरस्त्वं च भवतीति शरत्प्रभातयोस्त्रिभिर्विशेषणैः साम्यं दर्शितम् । अथ श्लोकत्रयमेवाह
धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् ॥ प्रासादास्त्रीसखाः पौराः केदारांश्च कृषीबलाः ॥१॥ नमिताः फलभारेण नमिताः शालिमञ्जरी:१ ॥ केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥२॥ प्रावृषं शरदं चापि बहुधाकाशहारिणीम् ॥ विलोक्य नोत्सुकः कः स्यान्नरो नीरजसङ्गताम् ॥३॥
१. पङ्कजानामुत्पत्ते अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org