________________
१०८
दमयन्ती-कथा-चम्पू: विनष्टं शुक्र-वीर्यं यासु । न पुनः क्षीणं-निवृत्तं वीर्यं यास्विति व्याख्येयम् । पुंसां वीर्य स्त्रीणां रज इति प्रसिद्धः। अत एव न विद्यते बलं-वीर्यं यासामिति अबलाः । रसनाशब्दः काञ्चीपक्षे न परं तालव्यो दन्त्योप्यस्ति, तथा च विश्वप्रकाश:-"रसना काञ्चिजिह्वयोः" [न-तृतीय ३०] इति । "रसति तां रसना रसकान्तौ सौत्रः" इत्यमरटीकाऽपि [ ] ।
____क सति श्लोकत्रयमशृणोदित्याह-कुसुमिता:-पुष्पिता ये सप्तच्छदास्तेषां छायासु कण्ठीरवकदम्बके-सिंहच्छन्दे विस्फूर्जति सति-आस्फालनं कुर्वति सति । किम्भूते कण्ठीरवकदम्बके ? रोषेण उद्युषिता-उच्छ्वसिता ये केसरा:-स्कन्धरोमाणि तैः कराल:रौद्रः कण्ठः-ग्रीवा यस्य तत्तथा तस्मिन् । किम्भूतासु छायासु ? सन्धानं-सन्धिमैत्रीसादृश्यमिति यावत् द्विरदमदगन्धस्य यत्सन्धानं तेन वासितासु-सुगन्धिषु । द्विरदमदगन्धसम्बन्धावसितासु इति पाठे द्विरदमदगन्धस्य सम्बन्धादवसितासु-द्विरदमदगन्धोऽयमिति प्रत्यभिज्ञया ज्ञातासु । शरदि सप्तच्छदाः पुष्पन्ति ते च मदगन्धयः, ततो गजभ्रान्त्या सिंहास्तत्र सरोषं विस्फूजितं कुर्वन्तीति भावः । पुनः केषु सत्सु ? हंसमण्डलेषुसितच्छदश्रेणिषु गृहदीर्घिकासु-गृहवापीषु या मृणालिका:-कमलिन्यस्तासां यत्काण्डं-नालं तस्य खण्डनाय योऽसौ विरामः-अन्तरान्तरा निवृत्तिरर्थान्नादस्यैव । यद्वा,२ गृहदीर्घिकामृणालिकाकाण्डखण्डनस्य यो विरामः-निवृत्तिस्तेन रमणीयं-रम्यं यथा भवति, तथा उन्नदत्सु-कूजत्सु सत्सु । स्थित्वा स्थित्वा मृणालं चर्वन्ति तत्कषायसंशुद्धकण्ठाश्च नादं कुर्वन्तीत्यर्थः । अत एव किम्भूतेषु ? शरत्समयस्य-शरत्कालस्य प्रवेशे-समागमने मङ्गलमृदङ्गा इव ये ते तथा तेषु । अन्योऽपि यदा राजादिरागच्छति तदा मङ्गलमृदङ्गा वाद्यन्ते, तथा शरत्समयस्य प्रवेशे अमी नदन्तो राजहंसा एव मङ्गलमृदङ्गा इति । पुनः कस्मिन् सति ? वनस्थलीषु बन्धुरः-मनोहरो यो बन्धूकानां कुसुमप्रकरः-पुष्पसमूहस्तस्मिन् उन्मिषति सति-विकसति सति । उत्प्रेक्ष्यते-स्मरस्य ये शरनिकरा:-उन्मादनमोहनतापनशोषणमारणाख्यास्तैनिर्मथिताः-हता ये पान्थाः-विरहिणः पथिकास्तेषां प्रहारात्क्षतस्थानाद् यो रुधिरनिस्यन्दः-रक्तक्षरणं तस्य यो बिन्दुसन्दोहस्तस्मिन्निव । बन्धूककुसुमानां लौहित्याद्विरहिजनरुधिरत्वेनोपमानम् । पुनः कासु सतीषु ? निश्शङ्काःहननाभावानिर्भया ये शुकास्तेषां यत्कुलं-समूहस्तस्य या आवल्य:-पंक्तिरचनया श्रेणयस्तासु प्रसरन्तीषु-प्रवर्त्तमानासु सतीषु । किम्भूतासु ? शरल्लक्ष्म्याः प्रवेशे वन्दनमाला-तोरणोपरि मङ्गल्यदामेव यास्तास्तासु । अन्यस्यापि नृपादेः प्रवेशे वन्दनमालां बन्ध्यत एव, तथा शरल्लक्षम्याः प्रवेशे शुकपंक्तय एव वन्दनमालायन्ते । पुनः कासु सतीषु ? पक्वस्य
१. सिंहवृन्दे अनू. । २. तेन यद्वा अनु. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org