________________
प्रथम उच्छ्वासः
तथा अविषास्वादं विषभक्षणमन्तरेण आघूर्णनं मूर्छनं । विषास्वादे हि आघूर्णनं भवत्येव, परमिदं विषास्वादाभावेऽपि । तथा असाध्वसं भयं विना कम्पनं । भये सति कम्प्यत एव, परमिदं भयमन्तरेणाऽपि । तथा न विद्यते आत्मनः - स्वस्य विक्रयः - विक्रीणनं यस्मिंस्तत् अनात्मविक्रयं पारवश्यं - पारतन्त्र्यम् । अन्यद्भि पारतन्त्र्यं आत्मविक्रये सति भवति, इदं चात्मविक्रयं विनाऽपि । तथा न विद्यते जरा - वयोहानिर्यत्र तत् अजरं, जाड्यं - मूर्खत्वम् । अन्यज्जाड्यं जरया भवति, जरायां प्राप्तायां बुद्ध्यभावः संजायते, परमेतज्जरां विनापि जाड्यं येन न किञ्चिच्चेतये । तथा न विद्यते इन्धनं यत्र तत् अनिन्धनं ज्वलनं - दीपनम् । अन्यज्ज्वलनमिन्धनेन भवति, इदं च तदभावेऽपि । तथा न लग्नो ग्रह: - : - भूतादिर्यत्र तत् अलग्नग्रहं, उन्मादनं उन्मादः - उन्मत्तता । अन्यदुन्मादनं ग्रहे लग्ने सति स्यात्, इदं च अलग्नग्रहम् । तथा न विद्यते वात्यायाः - वातसमूहस्य आघातः- आस्फोटनं यत्र तत् अवात्याघातं, उद्भ्रमणं-इतस्ततो मनोंदोलनरूपा भ्रमिः । अन्यदुद्भ्रमणं पर्णादेर्मण्डलाकृत्या ऊर्ध्वगमनं वात्याघातेन भवति, इदं च वात्याघाताभावेऽपि । तथा न विद्यते मौनंअभाषणव्रतं यत्र तत् अमौनं, मौक्यं - मूकता । अन्यन्मौक्यं मौने सति भवति, इदं च मौनाभावेऽपि । तथा न हीने - शब्दाग्राहके श्रुती - कर्णौ यत्र तत् अहीनश्रुति ईदृशं बाधिर्यं बधिरता । अन्यस्मिन् बाधिर्ये श्रुती हीने भवतः, परमिदमहीनश्रुतित्वेऽपि । तथा न नष्टे दृष्टी यत्र तदनष्टदृष्टिकं, अन्धत्वम् । अन्यदन्धत्वं दृष्टौ नष्टायां भवति, परमिदं दृष्टेः सद्भावेऽपि, "कामान्धो नैव पश्यति " [ ] इति वचनात् । तथा न स्खलिताः - प्रतिहता मनोरथा:अभिलाषा यत्र तत् अस्खलितमनोरथं मनः स्तम्भनं - अन्यत्र मनसो आगमनम् । अन्यन्मनः स्तम्भनं स्खलितमनोरथत्वे भवति, इदं च अस्खलितमनोरथेत्वेऽपि । तथा न विद्यते मन्त्रःमहाबीजादिर्यत्र स अमन्त्रः, आवेशः - व्यन्तरादेर्मनसि प्रवेशः । अन्यो हि आवेशो मन्त्रस्मरणाद् भवति, अयं तु मन्त्राभावेऽपि । यद्वा, अमन्त्र इति न मन्त्रगम्य इत्यर्थः । अन्योहि आवेशो मन्त्रसाध्यो भवति, अयं त्वनुरागरूपः आवेशो न मन्त्रैः शम्य इति भावः ? स्मरातुराणां हि प्रियाया अप्राप्तौ एता अवस्था भवन्त्येवेति ।
-
Jain Education International
९७
सुस्थिताः-स्वसुखावस्थायां स्थिता ये जनास्तेषां दुर्जन इव दुःखोत्पादकत्वात् खल इव यः स तस्मै, मनोजन्मने - मनोभवाय सर्वथा - सर्वप्रकारेण नमः -प्रणामोsस्तु दुर्जनस्यापि नमस्करणीयत्वात् । यस्य मनोजन्मन एवंविधः - पूर्वोक्तो व्यापार:- चेष्टा इति मनसि अवधारयन्-चिन्तयन्, सर्वाङ्गेभ्यः सकलप्रतीकेभ्यो भूषणानि - हारादीनि अवतार्यउत्तार्य तस्मै-तद्वार्त्तानिवेदिने पथिकाय सदयं सकृपं यथाभवति तथा अदात्-ददौ ।
च-पुनः तैस्तैः-अद्भुतावेदकैरालापैः - पान्थं कथमपि कालं स्थित्वा, अथ - अनन्तरं
For Personal & Private Use Only
www.jainelibrary.org