SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः कुमुदानि तेषु विकाशकत्वादिन्दुरिव यः स तेन त्वया दृष्टेन, यद्रष्टव्यं-प्रेक्षणीयं तदृष्टम्, अतः परं न किञ्चिच्चारुदृश्यमस्तीत्यर्थः । दृष्टेन इत्यत्र अर्थवशाद् विभक्ति-परिणामेन दृष्टया इत्यपि द्रष्टव्यम् । च-पुनर्मे-मम श्लाघ्यं जन्म अभूत् । चक्षुषी-नेत्रे कृतार्थे-कृतकृत्ये सफले जाते । तथा परिभ्रमणस्य-पर्यटनस्य प्रयासः सफलः सम्पन्नः, यद्भवतोरवलोकनं जातमिति। तत्-तस्मादिदानी-अधुना अन्यत्-अपरं किं-वच्मि ? तेन स्वविषयगमनाय-स्वदेशयानाय मामनुमन्यस्व-अनुजानीहि, इति पूर्वोक्तं अभिधाय-उक्त्वा व्यरंसीत्-विरराम मौनं शिश्रायेत्यर्थः । राजा-नलोऽपि एतत्-पथिकोक्ताकर्ण्य चिन्तितवान् । स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्ययं तथ्यवाग्व्यापारोऽपि विधेर्विचित्ररचनस्तत् किं न सम्भाव्यते । किन्त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती, कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ॥६१॥ स्त्रीमाणिक्येति । शार्दूलविक्रीडितवृत्तम् । स विषयः-देशः स्त्रिय एव माणिक्यानि-रत्नानि तेषां महाकरः-महाखानिः उत्पत्तिस्थानं । तथाऽयं पान्थोऽपि तथ्यवाक्-सत्यवचनः । तथा विधेः-धातुर्व्यापारोऽपि चेष्टापि विचित्रा रचना-निर्माणं यस्मिन् स तथाविधः, एषां मध्ये तत् किं यन्न सम्भाव्यते-न कल्प्यते । किन्तु-एतदाश्चर्यअद्भुतं यन्न दृष्टो रूपविभवः-सौन्दर्यलक्ष्मीर्यस्याः, सा अदृष्टरूपविभवा ईदृग्विधापि कान्ता-प्रिया इति नाम्नैव आकर्ण्यमाना सती उन्नतं-धीरं चेतो यस्यासौ उन्नतचेतास्तेभ्यः,१ मम मनो निम्नं कुरुते-अभिलाषदीनत्वाल्लाघवास्पदं विधत्ते । उन्नतस्य निम्नीकरणं दुःशकमिति विरोधः ॥६१॥ अथ मनसो निम्नीकरणमेवाहतथाहिनो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं', नो नामान्वयपल्लवोऽपि च मया कर्णावतंसी कृतः । १. तस्य अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy