SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: किम्भूतस्य ? प्रणता - नता ये सुराश्च असुराश्च तेषां शिरस्तु ये शोणमणयः - लोहितरत्नानि तेषां यो मरीचिचय:- अंशुजालं स एव बहल:- निविडो च कुङ्कुमानुलेप:- घुसृणलेपस्तेन पल्लवितं-किशलयितं पादारविन्दद्वयं यस्य स तस्य सुरासुरा एनं नमस्कुर्वन्ति । तेषां शिरः-शोणमणिकान्तिस्तत्पादयोः संक्रान्ता, ततः पल्लवोपमत्वं पादाब्जयोर्जातमिति । तथा क्रौञ्च गिरिं भिनत्तीति क्रौञ्चभित् तस्य क्रौञ्चभिदः । तथा सुगन्धिः- चन्दनादितरुबहुलत्वात् सुरभिर्यो गन्धमादनाख्यो गिरिस्तमधिवसत्यभीक्ष्णमिति सुगन्धिगन्धमादनाधिवासी तस्य । ८८ तस्माच्च-देशान्निवर्तमानेन व्याघुट्यागच्छता क्वचित् तद्देशस्य कस्मिंश्चित्भूभागे एकस्मिन्नध्वानं मार्गं आवृत्य तिष्ठतीति अध्वरोधि तस्मिन् अध्वरोधिनि, न्यग्रोधपादपतलेवटवृक्षच्छायायां दीर्घाध्वना-लङि घतबहुमार्गेण श्रान्तः - खिन्नो दीर्घाध्वश्रान्तस्तेन, विश्राम्यता-विश्रामं गृह्णता मया यत् आश्चर्यं - अद्भुतमालोकितं तत् श्रूयतां - कथ्यमानमिति शेषः । तदेवाह अतिललितपदविन्याससारसाधु 'सिन्धुरवधूस्कन्धमधिरूढा, प्रौढसखीसहायप्राया, प्रान्तपत'च्चारुचामीकरदण्डचामर 'मरुन्नर्तितालकवल्लरी, कर्णकुवलयालङ्कारधारिणी, रुचिररुचिमच्चरणनूपुरा, पुर:सरसरागगान्धर्विककण्ठकन्दर विनिःसरत्सरसगीतप्रेङ खोलनप्रयोगेषु दत्तावधाना, नेत्रे मनाङमीलयन्ती, ध्रियमाणमायूरात 'पत्रमण्डला, मण्डलितमदनचापचक्रवक भू: ५, भूपालपुत्रिका कापि क्वापि कुतोऽप्युच्चलिता तदैव न्यग्रोधच्छायामण्डप' मशिश्रियत् । तां चावलोक्य' चिन्तितवानस्मि विस्मितमनाः । अतीति । ईदृशी काऽपि अद्भुतरूपा भूपालपुत्रिका - राजसुता क्वापि कास्मिंश्चिद् रम्यप्रदेशे अधिकरणभूते, कुतोऽपि कस्माच्चिद् राजावसवा' दुच्चलिता-गच्छन्ती, तदैव यदाऽहं तत्र श्रान्त उपविष्टोऽस्मि, तत्काल एव न्यग्रोधछायैव मण्डप :- आश्रयविशेषस्तं १. राजावसथाद् अनू० । २. यदानीमहं अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy