SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वासः कर्णसम्पुटौ । तथा अश्वचक्राय - वाजिवृन्दाय क्रुध्यन्तं - ईर्ष्या कुर्वाणं । तथा आघूर्णिताघूर्णायमाना घोणा - नासिका यस्य स तम् । तथा अनवरतं - असक्तं कृतो घन:- निविडो घोर:-रौद्रो घर्घररवो येन स तम् । तथा उत्क्षिप्त: - उच्चैः कृतः पुच्छ्गुच्छ:-लाङ्गूलं येन स तम् । उत्प्रेक्ष्यते - सूकरं कमिव ? अपरं द्वितीयं दवदहनेन - दवाग्निना दग्धो अद्रिस्तमिव । मन्ये, एकस्त्वद्रिः सन्निहितो वर्तत एव द्वितीयस्त्वयं दवाग्निदग्धो गिरिर्न सूकर इति भावः । स राजा' दृष्ट्वा च रचितशरसन्धानलाघवो राघव इव राक्षसेश्वरस्य तस्योपरि परिणद्धविविधपत्त्रैः पत्त्रभिरभ्यवर्षत् । तत्र च व्यतिकरे - दृष्ट्वा चेति । तं सूकरं दृष्ट्वा - अवलोक्य स राजा रचितं कृतं शरसन्धाने - ज्यया सह बाणसंयोजने लाघवं - त्वरितं येन स शीघ्रं बाणं संयोजयन्नित्यर्थः । एवंविधः सन् तस्य - सूकरस्योपरि परिणद्धानि - स्नायुभिर्बद्वानि विविधानि पत्राणि येषु, ईदृग्विधैः ३शरैरभ्यवर्षत्-ववर्ष । कः ? कस्येव ? राघवः, राक्षसेश्वरस्येव । यथा राघव: - रामो राक्षसेश्वरस्य-रावणस्योपरि शरैरवर्षत् तथाऽयमपि । तत्र च व्यतिकरे - तस्मिन्बाणवर्षणावसरे किमश्वः पार्श्वेषु प्लवनचतुरः किं नु नृपतिः, शरान्मुञ्चन्नुच्चैर्दृढतर 'कराकृष्टधनुषा । किमालोलः कोलः ५ परिहृतशरः शौर्यरसिको, न जानीमस्तेषां क इह निपुणो वर्ण्यत इति ॥४९॥ ७७ किमश्व इति । इह - वेधनाधिकारे तेषां - अश्वनृपतिकोलानां मध्ये को निपुण: - को दक्षो वर्ण्यते - स्तूयत इति वयं न जानीमस्तेषां नैपुण्यमेवाह - किम्-वितर्के, पार्श्वेषु - इतस्ततो भूभागेषु प्लवनचतुरः-कूर्द्दनप्रवणोऽश्वो निपुणः, नुः - वार्थः, अथवा उच्चैरतिशयेन दृढतरंगाढतरं कराभ्यामाकृष्टं यद्धनुस्तेन दृढतरकराकृष्टधनुषा शरान् मुञ्चन् नृपति: किं निपुण: ? अथवा शौर्ये - शूरतायां रस: - आसक्तिर्यस्य स ईदृग्विध आलोलः - चपलः परिहृतःप्लवनकौशलेन त्यक्तः शरो येन सः, अप्राप्तशरप्रहार : कोलो निपुण: ? ॥४९॥ १. त्वरितत्वं अनू० । २. पत्राणि - पक्षा अनू० । ३. पत्त्रिभिः - शरैः अनू० For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy