SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ७८ पुनर्विशेषं दर्शयन्नाह– अपि च अजनि जनितपृथ्वीमण्डलोत्पातकम्पं, किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् । स्खलिततुरगवेगो विस्मयेनेव' यस्मिन्, दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥५०॥ अपि चेति । अजनीति । मालिनीवृत्तम् । तयो: - नृपतिकोलयोः किमपि वक्तुमशक्यं तत् द्वन्द्वेन-युग्मेन युद्धं द्वन्द्वयुद्धं अजनि जातम् । यस्मिन् द्वन्द्वयुद्धे दिनपतिरपि - रविरपि शौर्यस्य - शूरत्वस्य यदाश्चर्यं तस्य साक्षी - लग्नको बभूव । किम्भूतो दिनपति: ? स्खलित :- प्रतिहतस्तुरगाणां वेगो येन सः । उत्प्रेक्ष्यते - विस्मयेनेव - आश्चर्येणेव स्वभावतोऽपि मध्यन्दिने स्खलिताऽश्ववेगो रविः मध्याह्ने घटिकाद्वयं तिष्ठतीत्युक्तेः । तत्र कवेरयमूहः । किम्भूतं द्वन्द्वयुद्धम् ? जनित: पृथ्वीमण्डले - भूतले उत्पातस्य - उपद्रवस्य कम्पो येन तत् । तथा चलिताः-कम्पिताः शैला यत्र तत् तथाविधम् ॥५०॥ Jain Education International अथ कथमपि नाथं प्रोथियूथस्य जित्वा रे ज्वरित इव विशालं सालसः शालमूले । सुखमभजत राजा राजमानः श्रमाम्भ:कणकलितकपोलालोललीलालकेन ॥ ५१ ॥ दमयन्ती - कथा - चम्पूः अथेति । मालिनीवृत्तम् । अथ - अनन्तरं कथमपि महता कष्टेन प्रोथियूथस्यवराहवृन्दस्य नाथं-स्वामिनं महावराहं जित्वा - निर्जित्य ज्वरित इव - ज्वरप्राप्त इव सालस:आलस्योपेतो राजा-नलः शालमूले- शालाभिधानतरोस्तले विशालं विस्तीर्णं सुखमभजतप्राप । अन्योऽपि श्रान्तश्छायामासाद्य सुखमाप्नोत्येव । किम्भूतः ? श्रमाम्भः कणैः कलितौ - संयुतौ यौ कपोलो तयोरालोलः - चपलो यो लीलालकस्तेन राजमानः-शोभमानः । ज्वरित इव सालस इत्यनेन श्रमातिशयोक्तिः । अन्योऽपि ज्वरितो मूलादीनि सेवमानः स्वेदबिन्दुलक्ष्यमाणज्वरापगमो राजते ॥५१॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy