________________
७६
दमयन्ती-कथा-चम्पू: तस्मिंश्चावसरे:
जातेति । शार्दूलविक्रीडितवृत्तम् । स मृगयाकोलाहल:-आखेटककलकल: कोऽप्यद्भुतोऽभूत् । येन-कोलाहलेन निर्भरभृतं-अतिशयेन पूरितं सत् इदं ब्रह्माण्डमेव भाण्डं२-भाजनं तस्योदरं-मध्यं स्फुटतीव-द्विदलीभवतीव । किम्भूतो मृगयाकोलाहलः ? जात:-उत्पन्न आकस्मिकः-अकस्मादुत्पन्नो विस्मयः-आश्चर्यं येषां ते तथाविधैः सुरैः किमिदम्-किं जातमिदमिति आकर्ण्यमान:-श्रूयमाणः । किं कुर्वन् ? संत्रासेन-भयेन उज्झितं-त्यक्तं कर्णतालयोश्चलनं-कम्पनं यैस्ते, तथाविधान् दिग्दन्तिनः-दिग्गजान् कम्पयन्वेपयन् । पुनः किम्भूतः ? जन्तूनां-प्राणिनां जनितो ज्वरः-तापो येन स जनितज्वरः । "भाण्डं मूलवणिक् वित्ते तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥” इत्यनेकार्थः [२।१२६-१२७] ॥४८॥
राजाप्येकशरप्रहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशशशम्बरवराहहननहेलया विचरन्नितस्ततस्तरुणतरतमाल मञ्जरीजालनीलोद्युषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसम्पुटमश्वचक्रायः क्रुध्यन्त माघूर्णितघोणमनवरतकृतघनघोरघर्घररवमुत्क्षिप्तपुच्छे गुच्छमभिमुखमेकस्मिन्नतिसान्द्रभद्रमुस्तास्तम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरसूकर मपरमिव दवदहनदग्धाद्रि मद्राक्षीत् ।
राजा नलोऽपि एकशरप्रहारेण पातितः-हतो मत्तः-दृप्तो मातङ्गः-हस्ती येन स ईदृग्विधः सर्वतः-सर्वदिक्षु विहर्तुं शीलं येषां ते सर्वतो विहारिणो ये हरयश्च-सिंहाः, हरिणाश्च-मृगाः शशाश्च-शम्बराश्च मृगविशेषाः, वाराहाश्च-कोलास्तेषां या हनने-मारणे हेलाविलासस्तया इतस्ततो विचरन्-भ्रमन् सन् अभिमुखं-२स्वस्य सम्मुखं एकस्मिन् अतिसान्द्रा:-अतिशयेन अविरला ये भद्राः-चारवो मुस्तास्तम्बास्तान् भजति-आश्रयतीति अतिसान्द्रभद्रमुस्तास्तम्बभाक् तस्मिन् मुस्तास्तम्बसङ्कले पङ्किल:-कर्दमवान् यः पल्लवप्रदेशः-अखातसरो भूभागस्तस्मिन्, तं शूरसूकरं अद्राक्षीत्-अपश्यत् । किम्भूतं शूरसूकरम् ? तरुणतरा अतिशयेन नवा यास्तमालमञ्जयः-तापिच्छलतास्तासां यज्जालं-वृन्दं तद्वन्नीला:कृष्णवर्णा उघुषिता:-उच्छसिताः स्कन्धकेसरा:-स्कन्धरोमाणि यस्य स तं, तथा ऊर्ध्व स्तब्धौ-अनम्रौ कर्णसम्पुटौ-श्रोत्रयुगलं यस्य स तं । कर्णौ सम्यक्पुटाविव कपाटाविव
१. तत्र च व्यतिकरे-तस्मिंश्चावसरे अनू० । २. भाण्डं नास्ति अनू० । ३. स्वस्य सम्मुखं नास्ति अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org