SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः ७२ चकचकायमानानि अमन्दानि-अलघूनि यानि कन्दलानि-प्ररोहास्तेषामवलोकनेन-वीक्षणेन आनन्द्यमानः-आनन्दं प्राप्यमाणः । पुनः किम्भूतः ? श्वभिः-श्वानैरनुगतः-अनुयातः श्वानुगतः, पुरतो राजा पश्चात् श्वानो यान्तीत्यर्थः । यद्वा, शुनामनुगतः श्वानुगतः श्वपृष्ठयायीत्यर्थः । तथा अश्वैरनुगतः अश्वानुगतः, अग्रतो राजा पश्चादश्वा इत्यर्थः । अपिःविरोधे । यः श्वानुगत: स अश्वानुगतः कथं भवेत् किन्तु श्वानुगत एव स्यात् ? तत्परिहारस्तूक्त एव । किम्भूतं तद्वनम् ? सगजं-गजोपेतं, तथा अगः-पर्वतः तत्समीपदेशोऽप्यगः तत्र जातं अगजं । अपिः-विरोधे । यत्सगजं तद्गजरहितं कथं स्यात् ? परिहारस्तूक्त एव । ततश्च केचिदुद्यत्परश्वधा' गणपतयः, केचिद् दृष्टसिंहिकासुतविक्रमाः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केचित् हरिमार्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि शिवागमानुवर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डिताञ्जनाधरपल्लवाः५ प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथ्वीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः । ततश्च । ततः-अनन्तरं तस्य-नलस्य पृथ्वीपतेः-भूपस्य ईदृशाः पदातयः-पत्तयो वनं रुरुधुः-वेष्टयामासुः । किम्भूतास्ते ? केचित् पदातयः उद्यन्तः-पलायमानाः परे-उत्कृष्टाः ये श्वानस्तान् दधति-धारयन्तीति उद्यत्परश्वधाः । ईदृशा गणस्य-सेनाविशेषस्य पतयः-स्वामिनो गणपतयः । यदनेकार्थवृतिः-"त्रिभिर्गुल्मै गणस्तैश्च वाहिनी त्रिभिरिष्यते" [ ] | पक्षे, गणपतय:-हेरम्बाः । ते किम्भूताः ? उद्यन्तैरुद्गीर्यमाणत्वात् ऊर्ध्वं गच्छन् परश्वधःपरशुर्येषां ते तथाविधाः । तथा केचित् पत्तयः शशं-मृदुलोमकं धरन्तीति शशधराः । किम्भूताः ? दृष्टः सिंहिकासुतस्य-केशरिकिशोरस्य विक्रम:-शक्तिसम्पद् यैस्ते तथाविधाः । पक्षे, शशधरा:- चन्द्रास्ते किम्भूताः ? दृष्टः सिंहिकासुतस्य-राहोविक्रमः-ग्रसनलक्षणो यैस्ते । तथा केऽपि पाशः पाणौ येषां ते पाशपाणयः, ईदृग्विधाः सन्तो जम्बुकानां-शृगालानां दिशं पालयंति तद्दिशि गच्छतस्तान् रक्षन्तीति जम्बुकदिक्पालाः । पक्षे, जम्बुकदिक्पालाःवरुणाः । यद्विश्वप्रकाश:-"जम्बुकः फेरवे नीचे प्रतीची-दिक्पतावपि" [क० तृ० १४१] । तेऽपि पाशपाणयः । तथा केचित् मृगाणां समूहो मार्गं हरिं-सिहं मार्ग-मृगकदम्बकं च अनुसरन्ति-पश्चाद् गच्छन्त्यभीक्ष्णमिति हरिमार्गानुसारिणिः तथाविधाः सन्तो बलेन स्थाम्ना भद्रा:-प्रधानाः शक्ता इत्यर्थः । पक्षे, हरेः-विष्णोर्मार्गः-अध्वानं अनुसरन्त्यवश्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy