SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ७२ दमयन्ती-कथा-चम्पूः उग्रकर्मकारिणामुचितः-योग्य आकारो येषां ते तथाविधैः । यद्वा, क्रूरं-उग्रं यत्कर्मवधबन्धादिलक्षणं तस्मै उचित आकारो येषां ते तैः । पुनः किम्भूतैः ? कृतान्तदूतैरिवयमदूतैरिव पाश:-बन्धनरज्जुर्हस्ते येषां ते तैः, यमदूता अपि पाशहस्ता भवन्ति । पुनः किम्भूतो राजा ? वनप्राणिभिः-काननतिर्यग्भिः आकर्ण्यमान:-श्रूयमाणो हर्षितहयानांप्रमुदिताश्वानां हेषारवः-हेषाध्वनिर्यस्य स तथाविधः । किम्भूतैः ? दूरात्-दूरत एव उन्नमिता-ऊर्वीकृता कम्रा-मनोज्ञा कन्धरा यैस्ते तथाविधैः । तथा स्तब्धा-हेषारवश्रवणाय निश्चला ऊर्ध्वं कर्णसम्पुटा येषां ते तैः । उत्प्रेक्ष्यते, वनप्राणिभिः, कैरिव ? अकाण्डेअप्रस्तावे भयादुड्डीनप्राणैरिव-विगतजीवितैरिव, गतप्राणा अपि स्तब्धोर्ध्वकर्णसम्पुटा भवन्ति । पुनः किम्भूतः ? वनदेवताभिरुड्डीयमानं-उत्पतत् यच्छकुनिकुलं-पक्षिसमूहस्तस्य यः कोलाहल:-कलकलस्तस्य छलेन-दम्भेन भयात् राज्ञः प्राणिवधरूपान्निवार्यमाण इवनिषिध्यमान इव । शङ्के, खगारवदम्भेन भयात् वनदेवताभिरुच्यते भवताऽत्र नागन्तव्यमिति । किम्भूताभिर्वनदेवताभिः ? पवनेन प्रकम्पिता:-चालिता ये तरुशाखाग्रेषु पल्लवा:किसलयानि तेषां व्याजेन दूरादेव उत्क्षिप्तौ-ऊर्वीकृतौ हस्तौ याभिस्तास्ताभिः । अन्योऽपि यो वारयति स उत्क्षिप्तहस्त उच्चैः स्वरेण पूत्करोति तथैता अपीति । पुनः किम्भूतः ? वनमारुतैः-काननवायुभिरुपरुध्यमान इव-अनुग्रहं कार्यमाण इव । पुनः किम्भूतः ? अभिमुखागतैः-सम्मुखमायातैः, तथा उन्मिषन्ति-विकसन्ति यानि तरूणां पुष्पाणि तेषां यः प्रकर:-समूहस्तस्मिन् ये मकरन्दबिन्दवः-मधुपृषतास्तान् वहन्तीत्येवंशीला: उन्मिषत्तरुपुष्पप्रकरमकरन्दबिन्दुवाहिनस्तैः । अतएव तैः किम्भूतैः ? वनस्य यो विनाशस्तस्या शङ्का-भयं जाता येषां ते वनविनाशशङ्कितः, "तारकादित्वात् इतच्" [ तदस्य सञ्जातं तारकादिभ्य इतच्, पा० सू० ५।२।३६] अर्घमिव-पूजाविधिमिव उपपादयद्भिः-प्रापयद्भिः । अन्योऽपि योऽनुग्राह्यते तस्मै अभिमुखं गत्वा अर्को दीयत एव, तथा वनमरुद्भिरभिगम्य मकरन्दबिन्दव एवाऽ?नुग्राहणार्थं प्रादीयत, मा वनविनाशं विधत्तामिति । पुनः किम्भूतो राजा ? वनवीरुद्भिः-वनलताभि उद्भ्रान्ता:-कोलाहलश्रवणादुड्डीना ये भृङ्गास्तेषां य आरवः स एव गद्गदरुदितं-सकरुणाव्यक्तवर्णं क्रन्दितं तेन निषिध्यमान इव-निवार्यमाण इव । किम्भूताभिर्वनवीरुद्भिः? उन्निद्राणि-विहसितानि सान्द्राणि-बहलानि यानि कुसुमानि तेषां ये केसरा:-किञ्जल्कानि अङ्कुराश्च-प्ररोहास्तेषां यज्जालं-वृन्दं तेन जटिलाभिः-व्याप्ताभिः । अतएव उत्प्रेक्ष्यते, भयात्-राजोपद्रवशङ्कया उद्गत:-सम्भूतो रोमाञ्चप्रपञ्चः-पुलकविस्तारो यासां तास्तथाविधाभिरिव । अन्येनाऽपि यदा कश्चिद् बली निवार्यते तदा गद्गदरुदितं क्रियते, भयात् पुलकितेन च भूयते, तथा वनवीरुद्भिरपि केशराङ्कुराणां उद्गतरोमाञ्चोपमानं-भृङ्गारवस्य रुदितोपमानमिति । पुनः किम्भूताः ? उद्भिन्नानि-नि:सृतानि भास्वन्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy