SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रथम उच्छ्वास: ७१ निर्मांसमिति । राजा-नल एवं विधैः सकलैः समस्तैः प्रशस्तैर्गुणैयुक्तं वाजिनंअश्वमारुरोह-आरूढवान् । अथ विशेषणगुणानाह' - किम्भूतं वाजिनम् ? मुखमण्डलेवक्त्रदेशे निर्मांसं - मांसरहितमित्यर्थः । तथा मध्ये कटिभागे परिमितं - शास्त्रोक्तपरिमाणोपेतं । तथा कर्णयोः-श्रोत्रयोर्लघुम्, लघुकर्णता हि हयस्य प्रशस्या । तथा स्कन्धे - अंसे बन्धुरंरम्यम् । तथा उरसि-हृदये अप्रमाणं-विशालमित्यर्थः । तथा च पुना रोमोद्गमे - तनूरुहोद्भेदे स्निग्धं-चकचकायमानम् । तथा पश्चिमपार्श्वयोः - अपानभागयोः पीनं- मांसलम् । तथा पृष्ठेतनोश्चरमभागे पृथुतरं-अतिशयेन विशालं । तथा जवे- वेगे प्रधानं, जवो हि भूषणं वाजिन इति वचनान् । शार्दूलविक्रीडितम् ॥४७॥ आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः क्रूरकर्मोचिताकारैर्वागुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पापर्द्धिकैरनुगम्यमानः दूरादुन्नमितकम्रकन्धरैः ३ स्तब्धोर्ध्व कर्णसम्पुटैरकाण्डोड्डीनप्राणैरिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनप्रकम्पित तरुशाखाग्रपल्लवव्याजेन दूरादेवोत्क्षिप्तहस्ताभिरुड्डीयमानशकुनिकुलकोलाहलच्छलेन भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतैरुन्मिषत्तरु पुष्पप्रकरमकरन्दबिन्दुवाहिभिर्वनविनाशशङ्कितैरर्घ मिवोपादयद्भिरुपरुध्यमान इव वनमारुतैः, उन्निद्रसान्द्रकुसुमकेसराङ कुरजालजटिलाभिर्भयादुद्गत१° रोमाञ्चप्रपञ्चाभिरिवोद्भ्रान्तभृङ्गरव गद्गदरुदितेन निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वद १२ मन्दकन्दलावलोकनेनानन्द्यमानः श्वानुगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद । अथ राजा एवं विधगुणोपेतं अश्वमारुह्य च क्रमेण - कियता कालेन तद्वनं यत्र वने स सूकरस्तत्काननमाससाद - प्राप । किम्भूतः ? अनन्तै:- बहुभिर्वागुरावाहिभिः- मृगबन्धनधारिभिर्वागुरिकैः पापर्द्धिकैः-मृगयाकारिभिरप्यनुगम्यमानः - अनुस्रियमाणः राज्ञः पश्चान्तैर्गम्यत इत्यर्थः । किम्भूतैः ? उभयैरपि कर्दमेन- नीलीलोहमलादिना रक्त: कार्दमिकः, “सकलकर्दमावा” [ ] इतीकण् । कार्दमिकेन कर्पटेन वेष्टनेन अवनद्धाः-बद्धाः मूर्धजाः - केशा यैस्ते तै:, वन्यानां तिरश्चां मनुष्यभ्रमनिवृत्त्यर्थं तथाविधो वेषविधिः । तथा दण्डस्य खण्डः-शकलं पाणौ येषां ते दण्डखण्डपाणयस्तैः । तथा क्रूरकर्माणां - १. विशेषणद्वारेण गुणानाह अनू० । २. मांसरहितं कृशमित्यर्थः अनू० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy