SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ७४ दमयन्ती-कथा-चम्पू: मिति । हरिमार्गानुसारिणो बलभद्रा:-बलदेवाः । तथा केऽपि पत्तयः चक्रं पाणौ येषां ते, तथा मधु:-क्षौद्रं सूदयन्ति-नि:पीडयन्तिीति मधुसूदनाः । पक्षे, चक्रं-सुदर्शनं पाणौ येषां ते चक्रपाणयो मधुसूदना:-विष्णवः, मधुं-दैत्यविशेषं सूदयन्ति-मारयन्तीति मधुसूदनाः । "षूदक्त्वाश्रुतिहत्योः" [ ] । तथा केऽपि शिवा-शृगाली तस्या गमः-गतिस्तमनुवर्तन्ते-अनुसरन्तीति शिवागमानुवर्तिनः, यत्र शृगाली याति तत्र पश्चात् तेऽपि ग्रहणाय यान्तीत्यर्थः । तथा रौद्राः-भीषणाः, पक्षे-रुद्रस्य-शम्भोरिमे भक्ता रौद्रा:-शैवाः । ते किम्भूताः ? शिवस्य-हरस्य ये आगमाः-शास्त्राणि तान्यनुवर्तन्ते-तेषामनुसारितया प्रवर्तन्त इति शिवागमानुवर्तिनः । तथा केऽपि पदातयः आहित:-गृहीतो अग्निर्यैस्ते आहिताग्नय:तथाविधास्सन्तो वीन्-शकुन्तान् प्रलोकन्ते-वीक्षन्त इति विप्रलोकाः । पापद्धिका हि कपोतादिपाचनाय तरूणामधस्तात् तापनीसंज्ञां अग्निष्टिकां कुर्वन्ति । पक्षे, आहित:स्थापितः कुण्डेषु अग्निर्यैस्ते आहिताग्नयः-साग्निहोत्राः विप्रलोका:-ब्राह्मणजनाः । तथा केऽपि पत्तयः खण्डिताः-लुम्बिता:१ अञ्जनस्य-मेचकपक्षिणोधरप्रवाला:-पुच्छाऽधःपिच्छानि यैस्ते । यद्वा, खण्डिताः अञ्जनशाखिनोऽधः पल्लवा यैस्ते, तथाविधास्सन्तः प्रकर्षेण भञ्जन्ति । पक्षे, देहावयवान् वृक्षशाखादीन् वेति प्रभञ्जनाः । पक्षे, प्रभञ्जना:वाताः, ते किम्भूताः ? खण्डितो अञ्जनाख्यायाः-प्रियाया अधरपल्लव:-ओष्ठपल्लवो यैस्ते तथोक्ताः । तथा केऽपि पदातयः उत्खाता:-उन्मूलिता दन्तिदन्ताः यैस्ते तथाविधा, मुष्टयःसंग्रहाः । कराङ्गुलिन्यासविशेषा येषां ते, तथाविधास्सन्तो निस्त्रिंशा:-क्रूरकर्माणः । पक्षे, निस्त्रिंशाः-खगाः, ते किम्भूताः ? उत्खातः-उत्क्षिप्तो यो दन्तिदन्तस्तत्प्रधानो मुष्टिः-त्सरुर्येषु ते तथाविधाः । ततश्च तैः क्रियन्ते विकलभा वननिकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽनेकधारयापातिनः१ खङ्गाः खङ्गिनश्च, कृष्यन्तेऽनुकूजन्तः२ कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्षवश्च । ततश्च । ततो वनरोधनानन्तरं तैः पदातिभिः वननिकुञ्जा: विकलभाः-विगताः कलभा यै व्यपगतकरिपोताः क्रियन्ते । कुञ्जराश्च विगता कला-मदसुन्दरा भाकान्तिर्येभ्यस्ते विकलभाः-विकलकान्तयः क्रियन्ते, भयादिति शेषः । तथा तैः पदातिभिः खगाः-असयः अनेकया धारया पतन्त्यभीक्ष्णमिति पातिनः, ईदृग्विधा, ध्रियन्ते खड्गिनश्चगण्डकाः, अनेकधा-अनेकप्रकारेण रयेण-वेगेन आपतन्ति-गच्छन्त्यवश्यमिति रयापातिन १. लुंचिता अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy