SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रथम उवासः ___ अच्छाच्छैरिति । शार्दूलविक्रीडितम् । सम्प्रति-अधुना तृणैर्हरिद्भिश्छन्ना:-आच्छादितास्ते वनान्ताः-वनानि सेव्या:-आश्रयणीया । अत्र अन्तशब्द: स्वरूपार्थः । यदनेकार्थः"अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः" [२।१५९] इति । किम्भूतैस्तृणैः ? 'अच्छाच्छैः' एकार्थो द्विरुक्तः शब्दस्तस्मात् सातिशयत्वं द्योतयतीति वचनात् । अतिशयेन विमलैः रजोनवगुण्ठितैरित्यर्थः । यद्वा, अच्छवत्-स्फटिकवदच्छै:-निर्मलैः१, अतएव शुकानां यः पिच्छ:-गुच्छ:-पक्षकदम्बकं तद्वत् हरितैः-नीलैः, एकस्य तत्पिच्छस्य नीलत्वं तथाविधं न प्रतिभासते तेन समूहार्थं पिच्छगुच्छेत्युक्तम् । वृन्दार्थाऽन्यशब्दे वर्तमानेऽपि यदस्योपादानां तदनुप्रासरसिकत्वेनेति । यद्वा, शुकपिच्छानि-कीरपत्राणि गुच्छाःस्तबकास्तद्वत् हरितानि तैः । “अच्छो भल्लूके स्फटिकेऽमले" इति, [२।६२] "गुच्छो गुच्छं हारकलापयोः" इत्यनेकार्थः [२।६४] । किम्भूता वनान्ताः ? 'उत्ताण्डवैः' उत्कृष्टं ताण्डवं-नृत्यविशेषो येषां ते तैर्नृत्यं कुर्वाणैः सान्द्राणि-बहलानि यानि चन्द्रकिकुलानिमयूरकुटुम्बकानि तैर्मण्डिता:-भूषिताः । येषु वनान्तेषु विनिद्राणि-विकसितानि केतकानिकेतकीपुष्पाणि येषु, ईदृशानि यानि वनानि तेषां स्कन्धे-पृष्ठे लुठन्त:-परिवर्तमाना वाता:वायवः शनैः-मन्दं वान्ति-वहन्ति । एतेन वायोः सौगन्ध्यमान्द्योक्तिः । वाताः किं कुर्वन्तः? पल्वलपयः-अखातसरः पानीयं मनाक्-ईषत् कल्लोलयन्तः-तरङ्गयन्तः शनैः शनैर्वातात्पयसां तरङ्गीकरणं, अनेन तस्य शैत्योक्तिः । किम्भूतम् ? क्षीरवत्-दुग्धवद् विपाण्डुः-उज्ज्वलम् । केतकेति क्वचिन्नेतिवचनात् पुष्पप्रत्ययस्य न लुप् ॥४६॥ माद्यन्ति च एतेषु सम्प्रति प्रोथिनः । तद्युज्यते विहर्तुं इत्यवधारयन्नाहूय बाहुकनामानं सेनापतिमादिदेश । भद्र ! द्रुतमनुष्ठीयताम्रे, समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः, पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जित मातरिश्वानः श्वानः, समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां निर्मथितप्रोथियूथपाशाः पाशाः, इति । अथ मौलिमण्डलमिल न्मुकुलितकरकमलयुगलेन सेनापतिना यदाज्ञापयति देवः इत्यभिधाय त्वरया तथा कृते सति । १-१. पाठो नास्ति अनू० । For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy