SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ६८ दमयन्ती-कथा-चम्पूः ततश्च ततः-अनन्तरमसौ किं किं कुरुते ? तदाहभिन्दन्कन्दकशेरुकन्दलभृतः स्निग्धप्रदेशान् भुवो, भञ्जन्नञ्जनशैलशृङ्गसदृशः फुल्लल्लतामण्डपान् । मन्दं मन्दरलीलयाब्धिसदृशं मनंश्च लीलासरः, क्रोडः क्रीडति भाययन्निव भवत्क्रीडावने रक्षकान् ॥४५॥ राजा तु तदाकर्ण्य चिन्तितवान् भिन्दन्निति । शार्दूलविक्रीडितवृत्तम् । क्रोड:-शूकरः क्रीडति-रमते । किं कुर्वन् ? भुवः-पृथिव्याः कन्दाश्च:-सूरणा: कशेरुणि च-कन्दविशेषा:* । कन्दलानि च-प्ररोहास्तान् बिभ्रतीति कन्दकशेरुकन्दलभृतस्तान् स्निग्धप्रदेशान्-सजलभूभागान् भिन्दन्-दंष्ट्राभ्यां विदारयन् । तथा अञ्जनशैलशृङ्गः-अञ्जनगिरिशिखरैः सदृश:-समाना: अञ्जनशैल-सदृशस्तान् उच्चत्वेन नीलत्वेन च तत्सदृक्षान् फुल्लल्लतानांविकसवीरुधां मण्डपान्-आश्रयविशेषान् भञ्जन्आमर्दयन् । तथा च पुनर्मन्दंशनैर्भयाभावात् मन्दरस्य-मेरोर्या लीला-विलासस्तया अब्धिसदृशं क्रीडासरसीं मनन्विलोडयन् । यथा मेरुणा क्षीराब्धिर्मथितस्तथाऽयमुच्चत्वात् मेरुतुलनां प्राप्य भवल्लीलासरोऽब्धिसदृक् मनन् वर्तत इति भावः । एतादृशीभिविविधचेष्टाभिर्भवत्क्रीडावने रक्षकान्-गोप्तृन् भाययन्निव-भयमुत्पादयन्निव । भाययन्नित्पत्र भयोत्पत्तौ पूर्वोक्तभेदनादिक्रियाणां करणता अध्याहार्या । यद्वा, घण्टालालान्यायेन पूर्वार्थसम्बद्धाया मन्दरलीलायाः करणता योज्या । न तु कोलस्य भयहेतुत्वं अतो बिभेतेर्हेतु भये इत्यात्वम् । आत्मनेपदं च न भवति । मुण्डो भाययते इत्यादिवत् ॥४५॥ राजा तु तद्वराहागमनमाकर्ण्य-श्रुत्वा चिन्तितवान्-विचारितवान् । किं चिन्तितवान् ? इत्याह अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छन्ना वनान्तारेस्तृणैः, सेव्याः सम्प्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः । येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मनाग्, वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥४६॥ १. लीलासरः क्रीडासरसीं अनू० । ★ कशेरुकरुणी क्लीबे पुल्लिङ्गेऽपि च दृश्यते । किं कुर्वतावराहेण खाद्यन्ते हि कशेरवः ॥ इति प्रक्रियोणादौ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy