________________
प्रथम उवासः
६७
विजयमानाः-प्रकर्षेण वर्तमानो मनोजन्मा-कामो यत्र स तथा तस्मिन् । तथा जगत्-विश्वं जीवयति-वर्तयतीति जगज्जीवी तस्मिन्, तदानीं सस्याद्युत्पतेः ।
अथ विज्ञप्तिमाह
देव !
किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयोरम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किं नु करेण कुञ्जर इति भ्रान्ति समुत्पादयन्दंष्ट्रायुग्म करालकालवदनः कोलः कुतोऽप्यागतः ॥४४॥
ततश्चासौ।
देवेति । हे देव !-नृप ! “देवस्तु नृपतौ तोयदे सुरे" इत्यनेकार्थः [२।५३८] ।
किं स्यादिति । शार्दूलविक्रीडितवृत्तम् । ईदृग्विधः कोलः-सूकरः कुतोऽपिकस्माच्चिद् वनादागतः-आयातः । किम्भूतः ? दंष्ट्रायुग्मेन करालं-उच्चं कालं-कृष्णं वदनं-मुखं यस्य सः । करालेति' "डुबंग करणे" [सि० हे० धा० ८८८] "ऋकृभृवृतनि"-इत्यादिनौणादिक आलप्रत्यय: [सि० हे० ४७५] । किं कुर्वन् ? इति भ्रान्ति-सन्देहं जनयन्-उत्पादयन् । इतीति किम् ? दीर्घयोः-आयतयोः स्फटिकयोर्द्वन्द्वं दधत्-बिभ्रत्, किमिति वितर्के, अञ्जनपर्वतः स्यात् । तद्वपुषः कृष्णत्वात् अञ्जनगिरिसाम्यं, दंष्ट्रयोः श्वेतत्वात् स्फटिकयुग्मोपमानम् । उत-अथवा कि श्लिष्यद्लगद् बलाकाद्वयं यस्य स, ईदृग्विध अम्भोभिर्मेदुरः पीवरो-भृतो यो मेघ: अम्भोमेदुरमेघः स एष वर्तते बलाकाद्वयान्वितः सजलो जलद इति भ्रान्तिरुत्पद्यत इत्यर्थः । नु:अथवाऽर्थः । अथवा करेण शुण्डया शून्यः किं कुञ्जरः-हस्ती वर्तते । हस्तिनो दंष्ट्राद्वयमस्त्येवातस्तदंष्ट्रोपमानकल्पना न कृता, अञ्जनमेघयोगश्च सूकरदंष्ट्रोपमानस्य प्रकृत्या असत्वात् तत्परिकल्पना कृतेति । कोलस्य मेघकुञ्जरयोरुपमानं दंष्ट्रयोर्बलाकाद्वयकरिदन्तयोरुपमानम् । अत्र युग्मपदे द्वन्द्वशब्दं कश्चित् पठति, तदयुक्तं । स्फटिकयोर्द्वन्द्वमित्यत्र कथितस्य द्वन्द्वपदस्य पुनः प्रयोगे पुनरुक्तता स्यात्, तेन दंष्ट्रायुग्मेति पाठः श्रेयसः ॥४४॥
१. करालेति नास्ति अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org