SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः स्त्रियो यत्र स तस्मिन् । तथा पुष्पन्त्यः-विकसन्त्यो याः केतक्यस्तासां गन्धपानेन सौरभ्यग्रहणेन मत्ता-हृष्टाः मधुकृतो लयो यत्र स तस्मिन् । तथा प्रोद्भूताः-सञ्जाता भूरुहः-तरवो यत्र स तस्मिन् । तथा दरिद्राणां-अकिञ्चनानां निद्रायै द्रुह्यतीति दरिद्रनिद्राद्रुट् तस्मिन्, तदानीं तेषां दारिद्र्योपहतत्वेनाऽऽच्छादितगृहाभावात् कुतः शयनमिति । तथा सगर्वाः-दृप्ताः गोदुहः-गोपाला यत्र स तस्मिन् । तथा कदम्बस्तम्बान्-कदम्बगुच्छान् आलम्बन्ते-आश्रयन्त इति कदम्बस्तम्बालम्बिनः, ईदृग्विधा मधुलिह:-मधुपा यत्र स तस्मिन् । तथा मुदितः-हृष्टो यो मदन:-कामस्तस्य अट्टहास इवाचरन् अट्टहासायमानो यो घननादः-मेघध्वनिस्तं मुञ्चतीति मुदितमदनाट्टहासायमानघननादमुक् तस्मिन्, तदानीं कामस्याधिक्यात् असौ मेघो न गर्जति, मन्ये-मदन एव दृप्तोऽट्टहासं विधत्त इति भावः । तथा पच्यमानानि-परिपाकं गच्छन्ति यानि जम्बूफलानि तैः श्यामलिता-मेचकिता वनान्तराणां-वनमध्यभागानां रुक्-कान्तिर्यस्मिन् स तस्मिन्, तत्फलानां कृष्णत्वात् । तथा रचिता-कृता पान्थसार्थस्य-पथिकसमूहस्य शुक्-शोको येन स तस्मिन्, प्रियाविरहितत्वात् । तथा श्रूयभाणाः-आकर्ण्यमाना मदेन-हर्षेण मधुरा-मृष्टा मयूरवाचः-केका यत्र स तस्मिन् । तथा कोशातक्याः-पटोलिकायाः फलानि कोशातक्यः, विनिद्रा-विहसिता याः कोशातक्यस्ताभिः शालयते-शोभतेऽवश्यमिति विनिद्रकोशातकीशाली तस्मिन् । “शल् डक् श्लाघे" [ ] हरीतकादिभ्यश्च [पा० सू० ४।३।१६७] इति फलप्रत्ययस्य लुप् । तथा यूथिकानांमागधीनां जालं-समूहो विद्यते यस्मिन् सयूथिकाजाली तस्मिन् । “अति इनि ठनौ" [वा० पा० सू० ५।२।११५] । तथा नवमालिकानां सप्तलालतानां माला-पंक्तिविद्यते यस्मिन् स नवमालिकामाली तस्मिन् । “व्रीह्यादित्वात् इति" [पा० सू० ५।२।११६], तथा कन्दलानिप्ररोहान् भजतीति कन्दलभाक् तस्मिन् । "क्लदु रोदनाह्वानयो" [सि० है० धा० ३१७] "मृदिकन्दिकण्डि" [ ] इत्यादिना कन्देरलः । तदानीं कन्दलोत्पतेः । तथा पच्यमानापरिणतिमासादयन्ती बहुलीभवन्ती या जम्बूतरुवनराजिस्तया भ्राजते-शोभत इति पच्यमानजम्बूतरुवनराजिभ्राट् तस्मिन् । पच्यमानेति "कर्म कर्तरि यक्" [ ] । तथा भिक्षाक्षणे-भिक्षावसरे भिक्षार्थं क्षपिता:-इतस्ततः प्रेरिता: परिव्राजो येन स तस्मिन्, तदानीं हि तेषां भिक्षादुर्लभा वर्षाधिक्यात् । "क्षपण प्रेरणे," [पा० धा० २०९३] चौरादिकः । तथा शान्ता-निवृता सारङ्गाणां-हरिणानां रुक्-रोगो यस्मिन् स तस्मिन्, तदानीमेव तेषां तृषानिवृत्तेः । तथा नीडानां-कुलायानां निर्माणे-निष्पादने आकुला-विहस्ता बलिभुजःकाका यत्र स तस्मिन् । तथा सान्द्रा:-घना ये इन्द्रगोपा:-क्षुद्रारक्तजन्तवस्तान् युनक्ति-तैः १. हृष्टा अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy