________________
प्रथम उछ्वासः
ततश्च
तिरस्कृततरणित्विषि, विगलद्वारिविपुषि, शान्तचातकतृषि, निर्वाणवारवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकशुषि, विधववधूविद्विषि', वर्धितमण्डूकहषि, मुद्रितचन्द्रमसि, निद्राणपङ्कजसरसि२, स्वाधीनप्रियप्रेयसि३, प्रोषितकलहंसवयसि , नष्टनक्षत्रमण्डलमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटत्कुटजरजःपुञ्जपिञ्जरिताष्टदिग्भागभासि', भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशोषहति, विस्तरत्सरिति, शादुलहरिति६, विद्योतमानविद्युति, वहन्मन्दमेघङ्कर मरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बिमधुलिहि, मुदितमदनादृहासायमानघननादमुचि, 'पच्यमानजम्बूफलश्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूरवाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामालिनी, कन्दलभाजि, पच्यमानजम्बूतरुवनराजिभ्राजि, भिक्षाक्षणक्षपित परिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणाकुलबलिभुजि, सान्द्रेन्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुल११चक्रवाकचक्रक्रुशि११, शकटसञ्चाररुधि, पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्रनिद्राणबाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तुदि१२, जनितजनमुदि, तापिच्छच्छायानुच्छेदिनि, छन्नकुटीमध्यबध्यमानवाजिनि, विकसितबकुलवनविराजिनि१३, सीरसीमन्तितग्रामसीमनि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचिदनम्भसि१४ दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञपयामास१५ ।
ततश्च [इति] । ततः-अनन्तरं एवंविधे जीमूतसमये-मेघवर्षणकाले जाते-सति कदाचित्-कस्मिंश्चित् अनम्भसि-पानीयवर्षणरहिते दिवसे मृगयावनं-आखेटककाननं पालयति-रक्षतीति मृगयावनपालकः प्रविश्य-राज्यसभान्तर्गत्वा राजानं-नलं विज्ञपयामास
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org