________________
६२
दमयन्ती-कथा-चम्पू:
ग्रनाति श्रुतिशास्त्रयोविवरणं ग्रन्थाननेकांश्च यः,
स्वच्छं यस्य मनः स्वभावसरलं नो ग्रन्थते कुत्रचित् ॥ [ अस्मादात्मनेपदमपि । तथा च
]
"वहति जलमियं पिनष्टि गन्धा-नियमियमुद्ग्रथते स्रजो विचित्राः । मुशलमिदमियं च पातकाले, मुहुरनुयाति कलेन हुङ्क्तेन" ॥४१॥ [ ]
अथ क्रमेण यज्जातं तदाह
नीरं नीरजनिर्मुक्तं नीरजस्कं भुवस्तलम् । जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥४२॥
नीरमिति । श्लोकः । नीरं-जलं नीरजनिर्मुक्तं-अम्भोजविहीनं जातं । तथा भुवस्तलं भूतलं निर्गतानि रजांसि यस्मात्तन्नीरजस्कं-नि:पांशुजातम् । तथा वने? जातिलतापुष्पाणां-मालतीकुसुमानां यो गन्धः-सौरभ्यं तेन अन्धाः-आकुला मधुपा:-अलयो यत्र तत्तथाविधं जातम् ।।४२।।
अपि च
धुतकदम्ब कदम्बकनिष्पतन्नवपरागपरागममन्थराः । हृततुषारतुषारे रतिरागिणां, प्रियतमा मरुतो मरुतो ववुः ॥४३॥
अपि च । धुतेति । द्रुतविलम्बितवृत्तम् । मरुत:-पर्वतात् मरुतो-वायवो ववु:वान्ति स्म । किम्भूता मरुतः ? धुता:-कम्पिता ये कदम्बा:-तरुविशेषास्तेषां यत्कदम्बकसमूहस्तस्मान्निःपतन्-नि:सरन् यो नवः पराग:-पौष्पं रजस्तस्य पर:-प्रकृष्टो य आगम:सङ्गमस्तेन मन्थरा:-मन्दाः, भारोद्वहने हि मन्दगतिरेव स्यात् । एतावता वायूनां सौरभ्यं मान्द्यं चोक्तम् । पुनः किम्भूताः ? हृताः-ऊढाः तुषाराणां-शीकराणां तुषा:-कणाः यैस्ते तथाविधाः, एतावता शैत्यमसूचि । तथा रतौ-सुरते राग:-अभिलाषो विद्यते येषां ते रतिरागिणस्तेषां प्रियतमा-अतिदयिता: तज्जन्यश्रमाय नेतृत्वात् । “रतिः स्मरस्त्रियां रागे रते" इत्यनेकार्थः [२।१९४] । मरुत इति “पञ्चम्यास्तसिल्" [पा० सू० ५।३७] "मरुः पर्वतदेशयोः" इत्यनेकार्थः [२।४५८] ॥४३॥
१. वनं अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org