SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ६१ प्रथम उच्छ्वास: पुत्रकलत्रादि तस्य मन्द्रां - गभीरां मृदङ्गक्रियां - मृदङ्गवादनविधिं दधतं - दधानं, नृत्ये किल मृदङ्गध्वनिना भाव्यम् । किम्भूता भू: ? उन्मीलन्ति - विकसन्ति यानि नवानि - नूतनानि नीलानि - हरिच्छवीनि कन्दलानि च - प्ररोहाः दलानि च - पत्राणि नवनीलकन्दलदलानि तेषां व्याजेन छलेन रोमाञ्चिता - पुलकिता ॥४०॥ अपि चेति । पुनर्वर्षावर्णनमेवाह पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः, शृण्वन्तो मधुरं द्युमण्डलमिलत्मेघावलीगर्जितम् । शाखाग्रग्रथमानसौरभभरभ्रान्तालिपालिध्वजास्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥४१॥ अथ क्रमेण पर्णैरिति । शार्दूलविक्रीडितम् । धाराकदम्बद्रुमाः पुष्पमेव पुलकं- रोमाञ्चं वहन्तिधारयन्ति । उत्प्रेक्ष्यते—तोषेणेव - हर्षेणेव, अन्योऽपि, हर्षेण पुलकितो भवति । द्विविधा ह कदम्बा:- एके १धूलिकदम्बा, अपरे धाराकदम्बास्तत्र ये वसन्ते पुष्पन्ति ते धूलिकदम्बका: २, ये पुनर्वर्षासु पुष्पन्ति ते धाराकदम्बा इति । अथ हर्षहेतुमाह- किं कुर्वन्तो धाराकदम्बा: ? कर्णपुटायितै:- कर्णपुटोपमैः पत्रैः कुत्वा मधुरं - मृष्टं द्युमण्डले - नभस्तले मिलन्ती-निविडीभवन्ति या मेघावली - घनपंक्तिस्तस्या गर्जितं स्तनितं शृण्वन्त:आकर्णयन्तः । किम्भूतैः पर्णै: ? नवरसप्राग्भारेण नूतनजलसमूहेन विस्फारितानिविकासितानि यानि तानि तथा तै:, अन्योऽपि नवरागप्राग्भारविस्फारितेन कर्णपुटेन द्युमण्डलात्-स्वर्गमण्डलात् मिलत्या योषितः शब्दं शृणोत्येवेति छायार्थः । किम्भूता धाराकदम्बद्रुमाः ? शाखाग्रे ग्रथमाना मिलन्तः तथा सौरभभरात् - सौगन्ध प्राचुर्यात् भ्रान्ताःउपरि पर्यटन्तश्च ते अलयश्च त एव पालिध्वजाः - प्रसिद्धचिह्नानि येषां ते 'ग्रन्थ बन्धने " [पा० धा० १९७०] इति यौ चौरादिकाद्विकल्पेन ग्रथितुं शीला इति " शानचि" ग्रथमानाः । यत्कविरहस्ये गाथां ग्राथयति ग्रथत्यविरतं श्लोकांश्च लोकोत्तरान्, गद्यं ग्रन्थयति स्फुटार्थललितं यो नाटकं ग्रन्थति । १. धूली अनू० । २. धूलीकदम्बा: अनू० । ३. सौगन्ध्य अनू० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy