SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ६० दमयन्ती - कथा - चम्पूः कं- जलं तेन रेणुसञ्चारं - रजः प्रसरं हरन्त्यभीक्ष्णमिति प्रौढकरेणुसञ्चारहारिण्यः । पक्षे, किम्भूताः स्त्रियः ? प्रौढा - प्रगल्भा या करेणुः - हस्तिनी तस्यां सञ्चारवद्-गमनवत् सञ्चारेण-गमनेन हारिण्यः - मनोज्ञाः । " शाकपार्थिवादित्वात्" [पा०सू०वा० १७८ ] मध्यमपदलोपीसमासः । तथा कं- जलं धरन्ति कन्धराः - मेघाः कम्राः - रम्याः कन्धरा, यासु ताः कम्रकन्धराः । पक्षे, स्त्रियः कीदृश्यः ? कम्रा - मनोज्ञा कन्धरा - ग्रीवा यासां ताः । पुनः किम्भूता वर्षा : ? तिरस्कृता - आच्छादिता शशाङ्ककान्तिः- चन्द्ररोचिर्याभिस्ताः । तथा कायपानीयाय लापाः कलापा:- कुटुम्बीजनगीयमानरासकास्तैरुच्चमुखा- मेघावलोकनायोन्मुखा मण्डला-देशा यासु ता:, पश्चात् कर्मधारयः । पक्षे, स्त्रियः किम्भूताः ? तिरस्कृतः -निर्जितः शशाङ्ककान्तिकलाप:-चन्द्रकान्तिसमूहो येन तत् । ईदृशं उच्चं - उत्कृष्टं उन्नतकपोलं वा, मुखमण्डलं- मुखबिम्बं यासां ताः । किम्भूतं राजानम् ? सकलजगता- -समस्तलोकेन जेगीयमाना- अतिशयेन रागवद्- ध्वनिनोच्चार्यमाणा गुणा यस्य स तम् । पुनः किम्भूतं ? अनुपम:-अद्भुतो यो रूपलावण्यराशिः-रूपसौन्दर्यसमूहस्तेन राजितस्तम् । पुनर्वर्षावर्णनमेवाह— यत्र - १ आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूलध्वनिं', नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता, हर्षेणेव समुच्छ्रितान्वसुमती दधे शिलीन्ध्रध्वजान् ॥४०॥ अपि च यत्रेति । यत्र वर्षासु । आकर्ण्यति । शार्दूलविक्रीडितवृत्तम् । वसुमती - भूः समुच्छ्रितान्-उच्चान् शिलीन्ध्रा- भूमिस्फोटा एव ध्वजा:- पताकास्तान् दध्रे - धारयामास । उत्प्रेक्ष्यते - हर्षेणेव - मुदेव, अन्योऽपि यो हृष्टो भवति स समुच्छ्रितान् ध्वजान् धत्ते । किं कृत्वा ? जीमूतस्य - मेघस्य नूतः-स्तुतो यो ध्वनिस्तं घनगर्जितं आकर्ण्य - श्रुत्वा । "णूत् स्तवने" [पा० धा० १४८८]। किम्भूतं घनगर्जितं ? युवा चासौ राजा चेति युवराजस्तस्य भावो यौवराज्यं, स्मरस्यकामस्य यौवराज्ये पटह इव यः स तम् । कामस्य तरुणराजत्वपटहोपमं राज्याभिषेके हि पटहवादनमुचितं । तथा नृत्यत्केकिनां विततकलापकरणप्रवृत्तकलापिनां यत्कुटुम्बकं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy