SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः सन्तानं-प्रवाहमनुभवतः-निर्विशतो' दिनानि यान्ति-गच्छाति । “सन्तानोऽपत्यगोत्रयोः । संततौ देववृक्षे च" इत्यनेकार्थः [३।४५९] । सन्तति:-प्रवाहः । ___ अथ कदाचिदुन्नमत्पयोधरान्तरपतद्धारावलीविराजिताः, कमलदलकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालङ्कारधारिण्यः, शिजानामुक्ताहंसकाः१, प्रौढकरेणुसंचारहारिण्यः, कम्रकन्धराः, तिरस्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः सकलजगज्जेगीयमानगुण२मिममनुपमरूपलावण्यराशिराजितं राजानमवलोकयितुमिवावतरन्ति स्म वर्षा:३ । अथ-अनन्तरं कदाचित्-कस्मिन्नपि समये इमं राजानं-नृपं नलमवलोकयितुमिवईक्षितुमिव वर्षा अवतरन्ति स्म । वर्षाशब्दगतस्त्रीत्वेन वर्षाणां साक्षात् स्त्रीत्वमध्यवसितं । ततश्चोभयत्र श्लेषः । किम्भूता वर्षाः ? उन्नमन्तः-वर्षणाय प्रगुणीभवन्तो ये पयोधराःमेघास्तेषामन्तरे-मध्ये पतन्ती या धारावली-जलपातश्रेणिस्तया विराजिताः । स्त्रियः कीदृश्यः? उन्नमन्तौ यौ पयोधरौ-स्तनौ तयोरन्तरे-मध्ये पतन्ती-क्रीडन्ति या हारावलीमुक्तालताश्रेणिस्तया विराजिताः । यद्वा, उन्नमत्पयोधरयोरन्त:-मध्ये अपतन्त अतिसंहतोन्नतत्वात् । अप्रविशन्तो हारा यासां ताः । तथा वलीभिः-उदरलेखाभिर्विराजिताः, ततः कर्मधारयः । तथा किम्भूता वर्षाः ? कमलदलानां कान्तं-इष्टं नयनं-अतिवाहनं यासां ताः । पुनः किम्भूता वर्षाः ? सुरचापचक्रं-इन्द्रधनुर्मण्डलं तदेव वक्रे-ध्रुवौ या सां ताः । स्त्रीपक्षेसुरचापचक्रवत् वक्रे-कुटिले भ्रुवौ यासां ताः । पुनः किम्भूताः ? विद्युदेव मणिमेखला यासां ताः । तथाऽलं-अत्यर्थं कस्य-जलस्य आरं-वेगं धारयन्तीति । यद्वा, करस्य समूहः कारं तस्य राजदेयांशवृन्दस्य धारिण्यः । यद्वा, कार इति राजदेयांश नाम, यदनेकार्थः"कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ" [२।४१२] इति । वर्षा हि सस्याद्युत्पत्तिसाधकत्वात् कारस्यापि साधनं भवति । पक्षे, स्त्रियः किम्भूताः ? विद्योतमानमणिकाञ्चीभूषणधारिण्यः । पुनः किम्भूता वर्षाः ? शिञ्जाना:-गर्जन्त्यः तथा मुक्ता-मानसं प्रतिस्थापितारे हंसायकाभिस्ताः । यद्वा, हंसेभ्यो मुक्तानि मुक्तहंसानि-हंसरहितानि । निष्ठान्तं प्राक्प्रयुज्यते । ईदृग्विधानि कानि-जलानि यासु ताः, तत्समये हंसानां मानसे गमनात् । पक्षे, स्त्रियः किम्भूताः ? शिञ्जाने-शब्दायमाने आमुक्ते-बद्धे हंसके-चरणाभरणे यासां ताः । पुनः किम्भूता वर्षाः ? प्रवहति स्मेति प्रौढं "कर्तरि क्तः" [ ] । प्रवाहापन्नं यत् १. निर्विशमानस्य अनू० । २. नृपं नास्ति अनू० । ३. प्रति प्रस्थापिता अनू० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy