SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ५८ दमयन्ती-कथा-चम्पू: कथयतः, तथा आ-समन्तात् लध्व्यां काकौ-भिन्नकण्ठध्वनौ तिष्ठतीति आलघुकाकुत्स्थस्तस्य याञ्चावशात् स्वरभेदवतोऽर्थित:-याचकस्य प्रार्थना सफला क्रियतां, इत्यमुना प्रकारेण नरपुङ्गवान् नरश्रेष्ठानादिदेश:-आदिष्टवान् । वा-समुच्चये । क इव ? वानरेश्वर इव । यथा वानरेश्वरः-कपीशः सुग्रीवः-आदित्यसूनुः हे वैदेहि ! सीते' ! इति ब्रुवाणस्य प्रलपतः अलघो:-गुरोः काकुत्स्थस्य-रामस्यार्थिनः-सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुङ्गवान्-कपिमुख्यान् नियुक्तवान् । काकुत्स्थेत्यत्र श्लेषत्वाद् वर्णलोपो न दोषाय । ___ तथा कदाचिन्नलो मार्गणान्-याचकान् इष्टार्थसम्पादनेन सुमनस:-सौमनस्य युक्तान् विधाय स्वस्य गुणं त्यागाख्यं जगतोऽपि को-पूर्येते अनेनेति कर्णपूरः, अकर्णपूरं कर्णपूरं कृतवानिति कर्णपूरीचकार । सर्वस्यापि जगतो मार्गणैः स्वगुणं श्रावयामासेत्यर्थः । क इव? मकरकेतन इव-मन्मथ इव । यथा मकरकेतनः सुमनस:-पुष्पाणि मार्गणान्-शरान् विधाय स्वगुणं-निजज्यां कर्णपूरीकरोति-आकर्णान्तमाकर्षति । तथा कदाचिन्नल उच्चैः-अतिशयेन उन्नताभ्यां स्तनाभ्यां-पयोधराभ्यां नाभ्यां च रम्याः। तथा कृता अनिमिषा-निर्निमेषा नयनविभ्रमा-नेत्रलीला याभिस्ताः । तथा सकन्दर्पाः-सकामा वेलायां-वारके विलसन्ति भोगाय उपतिष्ठन्त इत्येवंशीला वेलाविलासिन्यस्ताः सिषेवे । क इव ? अम्भोनिधिरिव-अब्धिरिव । सोऽपि वेला-अम्भोवृद्धी: सेवते । किम्भूतास्ताः ? उच्चैः-अधिकाः तथा स्तननेन-शब्दनेनाभिरम्याः३ । तथा कृतमनिमिषाणां मत्स्यानां नयनं-प्रापणं यैस्तथोक्ताः विविधा भ्रमा-आवर्ता यासु ताः । तथा कं-जलं तस्य दर्पण-मोक्षेण सह वर्तन्त इति सकन्दर्पाः । दृपेर्मोचनार्थत्वात् । “कं शिरोऽम्बु सुखेषु स्यात्तत्रैव च कमव्ययम्" इत्येकाक्षरमाला [राघव० एकाक्षरकाण्ड२१] । तथा विलसन्त्यभीक्ष्णमिति विलासिन्यस्ताः । ___ तथा कदाचिन्नल: न पर्योद्धं शक्या अयोध्या तस्यां निषधायां पुरिस्थितः, तथा सुमित्रैः-शोभनसुहृद्भिरुपेतः-सहितः सन् रममाणा-विलसन्त्यो रामाविलासिन्यो यत्रेदृग्विधं यद्भरतप्रेक्षणं-भरतोक्तसङ्गीतं तेन क्रीडाविशेषेण क्षणं-मुहूर्तं आह्लादनं-प्रमोदमन्वभूत्अनुबभूव । क इव ? दशरथ इव । यथा दशरथ अयोध्यायां-अयोध्यानाम्न्यां नगर्यां स्थितः, तथा सुमित्रया-लक्ष्मणमात्रा सहितः सन् रममाणौ-क्रीडां कुर्वाणौ यौ रामभरतौ तयोः प्रेक्षणेन-अवलोकनेन आह्लादमनुभवति स्म । एवं-अमुना प्रकारेण अस्य-नलस्य सफलं यज्जीवलोकस्य सुखं-विषयसौख्यं तस्य १. सीते नास्ति अनू० । २. मन्मथ इव नास्ति अनू० । ३. शब्देन अभिरम्या: अनू० । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy