________________
प्रथम उवासः
५७
मृगशीर्ष अनुसरतीति मृगानुसारी । अत्र पक्षे, पकारात्प्राक् विसर्जनीय उपध्मानीयो वा, शष्पपदे तु षकार एव, तदेवं रूपभेदेऽपि श्रुतिसाम्यान्न दोष इति कविसमयः । तथा च चण्डसिंहकृते श्रीचण्डिकाचरिते महाकाव्ये
पुष्पादपामिह सदाधिगमे समृद्ध्याऽऽपुः पादपाः फलभराच्च विनम्रभावम् । पुष्पादपापि दधतो मुनिवत्सुजन्मा
पुष्पादपाति मधुसाधुमधुव्रतौघाः ॥ [ ] अपां-जलानामधिगमे-प्राप्तौ सत्यां पुष्पात्-कुसुमात् फलभराच्च-फलातिशयात् या समृद्धिस्तया पादपाः-तरवो विनम्रभावमापुः ! समृद्धौ हि नम्रता स्यात्, जलाधिगमः पुष्पफलानां हेतुः, तानि च समृद्धः सा च नम्रताया इति । तथा पुष्पाणां अत्-भक्षणं तया अपापि-पापरहितं शोभनं जन्म यथा मुनयो दधति तद्वदेव एतेऽपि मधुव्रतौघाः सुजन्म धारयन्तः सन्तो मधुः-मकरन्दमपुः-पिबन्ति स्म । पादैः-अंहिभिः पादेषु-मूलेषु वा पतन्त्यभीक्ष्णमित्यनेन मधुप्राचुर्योक्तिः ।।
अत्रायुक्पादयोः षकार एव, युक्पादयोश्च विसर्ग उपध्मानीयो वा न तु षकारः, परं श्रुतिसाम्याददोषः । एवं विसर्गजिह्वामूलीयषकारेष्वपि, यथा
"ये सहजनिष्कलङ्काचारा अपि भान्ति निस्त्रि कूटगमात् ।
सुधियः काष्ठादशकन्धराधिकं सपदि तेऽश्नुवते ॥" [ ] सहजः-अकृत्रिमो निःकलङ्क:-निर्दोष आचारो येषां तथोक्ताः सुधियः काष्ठादशकं दिग्वत्कन्धरैः पर्वतैरधिकमश्नुवते-प्राप्नुवन्ति । स्त्रीणामभावो निस्त्रि कूट-छद्म तस्य गमः-भ्रंशः कूटगमः, निस्त्रि च कूटगमश्च निस्त्रिकूटगममिति समाहारद्वन्द्वः । एतेन जितेन्द्रिय-यत्वोक्तिः । अपिः-विरोधे । येषां किल सहजस्वर्णायां लङ्कायां चारः-गतिः, ते कथं त्रिकूटाचलगमनाभावेन भान्ति, दशकन्धरः-रावणः काष्ठा:-दिशः । अत्र स्वार्थे निष्कशब्दे ष एव, नि:कलङ्कपक्षे जिह्वामूलीयविसर्गौ ।
तथा कदाचिन्नलः अक्षैः-प्रासकैविनोदं-क्रीडामन्वतिष्ठत्-अकरोत् । क इव ? अञ्जनाया अपत्यं आञ्जनेयः-हनुमान् स इव । सोऽपि अक्षस्य-रावणात्मजस्य विनोदं-वधं चकार ।
तथा कदाचित् सुग्रीवः-शोभना ग्रीवा यस्य स नलः वैः-स्फुटं देहीति ब्रुवाणस्य
१. एव नास्ति अनू० । २. तस्य नास्ति अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org