________________
दमयन्ती-कथा-चम्पू: तथा कदाचिन्नलः पर्वतभुवि-गिरिक्षोण्यां विजहार-चिक्रीड । विपूर्वो हरतिः क्रीडायां वर्त्तते, यदुक्तं क्रियाकलापे-"क्रीडति विहरति रमते खेलति खेलयति चेति खेलार्था" [ ] इति । किम्भूतायां पर्वतभुवि ? मदन:-सिकुको रोढा' धत्तूरो वा, बाणःवृक्षविशेषः, असन:-प्रियकः, अतिमुक्तक:-वासन्ती, शरः-मुञ्जस्ततो द्वन्द्वे तैः सम्यक्छादितायां-आवृतायां । क इव ? चन्द्रमौलिरिव शम्भुरिव । यथा शम्भुः पर्वताद् भवति स्मेति पर्वतभूस्तस्यां पर्वतभुवि गौर्यां विहरति-क्रीडति । किम्भूतायां पर्वतभुवि ? मदन:कामस्तस्य बाणासनं-धनुस्तेन अतिमुक्ता एव, अतिमुक्ताः, “स्वार्थे कः" [ ] प्रतिक्षिप्ता ये शराः-बाणा उन्मादन-मोहनादयस्तैः संछादितायां-विधुरितायां मदनाकुलायामित्यर्थः ।
तथा कदाचिन्नलः शिशिरा ये कमलाकरा:-सरांसि तेषामवगाहनेन-अवलोडनेन उत्पन्ना ये पुलकाः-रोमाञ्चास्तैः कोरकिता-कुड्मलिता तनुः-शरीरं यस्य, ईदृग्विधः सन् अनन्तान्-बहून् भोगान्-विलासान् भजतीति अनन्तभोगभाक् सुखं-आनन्दमन्वतिष्ठत्अकरोत्, वैषयिकसुखं बभाजेत्यर्थः । यथारे कमलानामाकरः-वनं । क इव ? अच्युत इवविष्णुरिव । सोऽपि अनन्तस्य-शेषस्य भोगं-अहिकायं भजतीति अनन्तभोगभाक् सुखमनुतिष्ठति । किम्भूतोऽच्युतः ? शिशिरः-शीतलः समुद्रोत्पन्नत्वात् कमलायाःकोरकिता तनुर्यस्य स तथाविधः ।।
तथा कदाचिन्नलो राजसभायां-नृपसदस्यवस्थितः प्रजाव्यापार-प्रकृतिव्यवहारं अचिन्तयत्, जनानां सत्यासत्यादिविवेकमकरोत् । क इव ? नलिनयोनिरिव-ब्रह्मेव, सोऽपि राजसभावे-रजो गुणे स्थितः सन् प्रजाव्यवहारं-लोकनिर्माणं चिन्तयति ।।
तथा कदाचिन्नलः कान्तानां-अङ्गनानां उन्नमन्ती-यौवनभरादुच्चैर्जायमाना या पयोधरमण्डली-स्तनपंक्तिस्तस्या विलासेन-उपभोगेन हर्ष-प्रमोदमभजत् । क इव ? मयूर इव, सोऽपि कान्ता-काम्या उन्नमन्ती-वर्षणाय प्रगुणी भवन्ति या पयोधरमण्डली-मेघमाला तस्या अवलोकने यो विलासः-नृत्यं तेन हर्षं भजति ।।
__तथा कदाचिन्नलः अश्वाः-सन्त्यस्यामिति अश्विनी तया सेनया सहितः-युक्तस्तथा मृगान् अनुलक्षीकृत्य सरतीति मृगानुसारी-मृगानुगामी सन् बहूनि शष्पाणि-बालतृणानि यत्रेदृग्विधं वनमार्ग-वनपथं बभ्राम-अभ्राम्यत् । क इव ? नक्षत्रराशिरिव-भपंक्तिरिव, सोऽपि बहुश:-बहुप्रकारं पवनमार्ग-नभो भ्रमति । किम्भूतः ? अश्विन्या नक्षत्रेण सहितः । किम्भूतया अश्विन्या ? सह इनेन-रविणा वर्तत इति सेना तया । पुनः किम्भूतः ? मृगं
१. सिकुको रेड्ड अनू० । २. यस्य स अनू० । ३. यद्वा अनू० । ४. समुद्रोत्पन्नायाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org