________________
प्रथम उछासः
५५
कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसञ्छादितायां पर्वतभुवि विजहार ।
कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोरकिततनुरनन्तभोगभाक्सुखमन्वतिष्ठत् ।
कदाचिन्नलिनयोनिरिय राजसभावस्थितः प्रजाव्यापारमचिन्तयत् । कदाचिन्मयूर इव कान्तोन्नमत्ययोधरमण्डलीविलासेन हर्षमभजत् ।
कदाचिन्नक्षत्रराशिरिवाश्चिन्या सेनया सहितः१ मृगानुसारी बहुशष्यवनमार्ग२ बभ्राम ।
कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् ।
कदाचिद् वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुत्स्थस्यार्थिनः प्रार्थना क्रियतां सफलेति वानरपुङ्गवानादिदेश ।
कदाचिन्मकरकेतन इव सुमनसो मार्गणान् विधाय स्वस्यगुणं३ कर्णपूरीचकार ।
कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमिषनयनविभ्रमाः४, सकन्दर्पाः सिषेवे वेलाविलासिनीः ।
कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणरामभरतप्रेक्षणेन क्षणमाह्लादमन्वभूत् ।
एवमस्य सकलजीवलोकसुखसन्तानमनुभवतो यान्ति दिनानि ।
कदाचित्-कस्मिश्चित् काले नलो 'हरिवाहनविलासं' हरिः-अश्वस्तस्य वाहनंवाह्यालीप्रवर्त्तनं तदेव विलासस्तं अकरोत् । किम्भूतः ? न उत्पन्नाः-सञ्जाता विषमा-उग्रा रणभी:-युद्धभयं यस्य सः । तथा अहितानां-शत्रूणां अपकारी-अपकर्ता । क इव ? गरुड इव । यथा गरुड:-तार्यो हरे:-विष्णोर्वाहनविलास:-वाहनलीलां तं करोति, वाहनत्वं भजत इत्यर्थः । किम्भूतः ? न उत्पन्नं विषान्मरणभयं यस्य सः । तथा अहीनां-सर्पाणां तापंसन्तापं करोतीत्येवंशीलो-ऽहितापकारी, तद्भक्षकत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org