________________
दमयन्ती - कथा - चम्पूः
भुवनव्यापारा:-भूव्यवहारास्त एव पारावार : - समुद्रस्तत्र नौकर्णधार :- नाविकः । यथा नाविकेनाऽब्धिस्तीर्यते तथा येन भूव्यवहाराः सर्वेऽपि तीर्णास्तत्परिच्छेदात् । कर्णधारपदेनैव नाविकत्वे प्राप्ते नौशब्दो हयहेषितादिवदुक्तपोषकः । 'सकलभुवनव्यापारनौकर्णधार' इति पाठे सकलभुवनव्यापार एव नौ:- बेडा तत्र कर्णधार इव यः सः । यथा कर्णधारेण नौर्व्यापार्यन्ते तथा येन भूव्यापाराः सर्वेऽपि व्यापार्यन्ते स्मेति भावः । पुनः कीदृक् ? सुधाम्भोनिधिः - क्षीराब्धिस्तस्य ये डिण्डीरपिण्डाः - फेनराशयस्तद्वत् पाण्डुरं यद्यशस्तदेव कुशेशयखण्डं - कमलवनं तेन मण्डितं - भूषितं संसारस्य च सर उपमानं, एतावताऽस्य सर्वत्राऽपि यशोऽस्तीति द्योतितम् । तथा सरागीकृताः - स्वस्मिन्ननुरागिणः कृताः समस्ताः पार्थिवस्य नलस्य अनुजीविन:- सेवका येन सः, सर्वेऽपि नलसेवका अस्मिन्ननुरज्यन्त इत्यर्थः । तथा तस्य नलस्य 'जीवितसमः प्राणसमः' उभयत्राप्येकार्थप्रयोगेणाधिक्यं द्योत्यते, अधिकं नलजीविततुल्य इत्यर्थः । तथा हृदयसमः-चित्ततुल्यः । किं बहूच्यते, शरीरमात्रेण - केवलं शरीरेण भिन्नः - पृथक् द्वितीय इवात्मा, वस्तुतस्तयोरेक एवात्मा, परं शरीरभेदेन द्वितीय इव प्रतिभासते । एको नलः शरीरान्तर्गतो द्वितीयोऽयं श्रुतशीलदेहान्तर्गतो नलस्यैवात्मेत्यर्थः । एतावता तयोः परस्परानुकूलत्वं द्योतितम् । तथा कुलक्रमेण-नलीयवंशपरिपाट्या आगतः - प्राप्तः, नलवंशे पूर्वमप्यस्यैव पूर्वजा मन्त्रिण आसन्निति । तथा नलस्य सुखदुःखयो: सङ्क्रान्तेर्दर्पण:- आदर्शः । यथा दर्पणे अभिमुख्यपदार्थगत-यथावस्थितरूपसङ्क्रान्तिर्भवति तथाऽस्य हृदि नलीयसुखदुःखयोः संक्रमो जायते । यदा नलस्य सुखं तदाऽस्यापि सुखं, यदा तस्य दुःखं तदाऽस्यापि दुःखमिति भावः । तथा स्वभावेन-प्रकृत्या नलेऽनुरक्तः - अनुरागवान्, कदाचित्तत्प्रातिकूल्याचरणेन नले सानुशयोऽपि वस्तुतस्तस्मिन्ननुरज्यत एवेत्यर्थः । तथा शुचिः शुद्धः । तथा सत्या - अवितथा पूता- निर्दोषा वाक् यस्य सः । तथा कृतं जानातीति कृतज्ञ: - परकृतोपकारवेत्ता । तथा ब्राह्मण:-द्विजवंशोत्पन्नः । तथा सालङ्कायनस्य मन्त्रिणः सूनुः-पुत्रः ।
५२
मित्रञ्च मन्त्री च सुहृत्प्रियश्च विद्यावयः शीलगुणैः समानः । बभूव भूपस्य स तस्य विप्रो, विश्वम्भराभारसहः सहायः ॥३८॥
मित्रमिति । स विप्रः - श्रुतशीलनामा तस्य - भूपस्य नलस्य मित्रं च बभूव, आपदि रक्षकत्वात् । तथा मन्त्री च बभूव, सद्बुद्धिदायकत्वात् । तथा सुहृत्बभूव, सर्वरहस्योक्तिस्थानकत्वात् । तथा प्रियश्च बभूव, अत्यन्तरक्षणीयत्वात् । तथा विद्याभिः-शास्त्रैः, वयसा
१. संसार एव सरो येन सः यशसः कुशेसयखण्डं संसारस्य' अनू० । २. एकार्थपदप्रयोगेणाधिक्यं अनू०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org