________________
प्रथम उछासः
___ ५१ तस्य च महामहीपते रस्ति स्म प्रशस्तिस्तभ्भः२ सकलश्रुतिशास्त्रशासनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्३, आकरः साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सकलकलाङकुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम् आलानस्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौकर्णधारः४, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डितसंसारसराः५, सरागीकृतसमस्त पार्थिवानुजीवी, जीवितसमः, प्राणसमः, हृदयसमः, . शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः९, सङक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्त:, शुचिः, सत्यपूतवाक्१०, कृतज्ञः, ब्राह्मणः सालङ्कायनस्य सूनुः११ श्रुतशीलो नाम महामन्त्री ।
तस्य च महामहीपतेः-महानृपस्य श्रुतशीलो नामेति प्रसिद्धो महामन्त्री-बृहत्सचिवो अस्तिस्म-आसीत् । किम्भूतः श्रुतशीलः ? सकला:-कृत्स्नाः याः श्रुतयः-वेदाः शास्त्राणि च-व्याकरणादीनि तान्येव शासनाक्षरमालिका:-आदेशवर्णपंक्तयः, इत्थं विधेयं, इत्थं न विधेयमित्यादिरूपास्तासां प्रशस्तिस्तम्भः । यथां प्रशस्तिस्तम्भे लिखिता शासनाक्षरपंक्तिरविच्युता भवति तथा यस्य हृदये श्रुतिशास्त्राणि स्मृतिवशादविनश्वराणि सन्तीति भावः । तथा पुण्यकर्माण्येव प्ररोहा:-अङ्कुरास्तेषां न्यग्रोधपादपः-वटवक्षः । यथा न्यग्रोधपादपाद् बहवस्तदङकुरा उत्पद्यन्ते तथाऽस्मात्पुण्यकर्मोत्पत्तिरिति । तथा साधूनां-सतां ये व्यवहाराः, यद्वा, साधवो रम्या ये व्यवहारा:-व्यापारास्त एव रत्नानि तेषामाकरःखानिः । यथा आकराद् रत्नानि जायन्ते तथाऽस्मात् सद्व्यवहारा इति भावः । तथा पार्थिवनीतिः-नृपसत्कव्यवहारः स एव ज्योत्स्ना-कौमुदी तस्या इन्दुः-चन्द्रः । यथेन्दौ ज्योत्स्ना विलसति तथाऽस्मिन्नृपाणां नीतयः इति नृपनीतिविदेव, किल नृपाणां सन्न्याये प्रवर्तनं कारयेदिति । तथा सकलकला एव अङ्कुरकलापः-प्ररोहवृन्दं तस्य कन्दः । यथा कन्दात् प्ररोहाणामुत्पत्तिस्तथा तस्मात् सकलकलानामिति । तथा समस्ता ये पुरुषगुणाःशौर्यादयस्त एव मणयस्तेषां सागरः । यथा सागरे मणयः प्राप्यन्ते तथाऽस्मिन् पुरुषगुणा इति । तथा चपला-अन्यत्र गत्वरी२ या राज्यलक्ष्मीः सैव करेणुका-हस्तिनी तस्या आलानस्तम्भः-बन्धनस्तम्भः । यथाऽऽलानस्तम्भेन बद्धा करेणुर्नान्यत्र याति तथा येन राज्यलक्ष्मीः सुसूत्रिता नलं विहायाऽन्यं नृपं न सङक्रामतीति । तथा सकला ये
१. तासां नास्ति अनू० । २. गत्वरा अनू० ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org